________________
रुचकद्वीपतोऽभ्येयु-श्रतनी दिक्कुमारिकाः । रूपा १ रूपासिका२ चापि, सरूपा ३ रूपकावती४॥ १३ ॥ चतुरङ्गुलतो नालं, छिच्चा खातोदरेऽक्षिपत् । समापूर्य च वैडू-स्तस्योर्ध्व पीठमादधुः ॥१४॥ बध्ध्वा तदूर्वया जन्म-गेहाद्रम्भागृहत्रयम् । ताः पूर्वस्यां दक्षिणस्या-मुत्तरस्यां व्यधुस्ततः॥१५॥ याम्यरम्भागृहे नीत्वाऽभ्यङ्गं तेनुस्तु तास्तयोः । स्नानचर्चाशुकालका-रादि पूर्वगृहे ततः ॥१६॥ उत्तरेऽरणिकाष्ठाभ्या-मुत्पाद्यामिं सुचन्दनः । होमं कृत्वा बबन्धुस्ता, रक्षापोट्टलिका द्वयोः ॥ १७ ॥ पवतायुभवेत्युक्त्वा, स्फालयनश्मगोलको । जन्मस्थाने च तौ नीत्वा, स्वस्वदिक्षु स्थिता जगुः ॥१८॥
एताः सर्वा अपि चतुःसहस्रसामानिकैः चततमुभिमहत्तराभिः षोडशभिरङ्गरक्षकसहस्रः ससभिरनीकैस्तदधीशैश्चाऽन्यैश्च देवैः परिवृत्ता आभियोगिकदेवकृतयोजनमितविमानैरिहायान्ति
॥ इति दिक्कुमारीकामहोत्सवः ॥ ततः सिंहासनं शाकं, चचालाचलनिश्चलम् । प्रयुज्याथावधि ज्ञात्वा, जन्मान्तिमजिनेशितुः॥१॥ वज्रयेकयोजनां घण्टा, सुघोषां नैगमेषिणा । आवदयत्ततो घण्टा-रेणुः सर्वविमानगाः ॥२॥ शक्रादेशं ततः सोच्चैः, सुरेभ्योऽज्ञापयत्स्वयम् । तेन प्रमुदिता देवा-चलनोपक्रमं व्यधुः ॥३॥ पालकाख्यामरकृतं, लक्षयोजनविस्तृतम् । विमानं पालकं नामाऽध्यारोहत्रिदशेश्वरः ॥४॥ पुरतोऽग्रमहिष्योऽष्टो, वामे सामानिकाः (८४०००)सुराः।दक्षिणे त्रिसभा(४२०००)देवाः सप्तानीकाश्च (७)पृष्ठतः॥५॥