SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ दीपिका कल्प उद्योतस्त्रिजगत्यासी-दावान दिवि दुन्दुभिः । नारका अप्यमोदन्त, भरप्युच्छासमासदत् ॥ २॥ दिक्कुमार्योऽष्टाधो-लोकवासिन्यः कम्पिताऽसनाः । अर्हज्जन्मावधेात्वाऽभ्येयुस्तत्सूतिवेश्मनि ॥३॥ भोगङ्करा१भोगवती२,सुभोगाश्भोगमालिनी४ । सुवत्सा५वत्समित्रा च६,पुष्पमाला७त्वनिन्दिता८॥४॥ नत्वा प्रभु तदम्बां चे-शाने सूतिगृहं व्यधुः। संवर्तेनाशोधयन् क्षामामायोजनमितो गृहात ॥५॥ मेघङ्करा १ मेघवती २, सुमेघा ३ मेघमालिनी ४। तोयधारा ५ विचित्रा ६ च, वारिषेणा ७ बलाहका ८ ॥६॥ अष्टोद्मलोकादेत्यैता, नत्वार्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौषं-वर्ष हर्षाद्वितेनिरे॥७॥ अथ नन्दो१त्तरानन्दे २, आनन्दा ३ नन्दिवर्द्धना ४ । विजया ५ वैजयन्ती ६ च, जयन्ती ७ चाऽपराजिता ८ ॥८॥ पूर्वरुचकपर्वतादेत्यैता दर्पणकरास्तिष्टन्ति।। समाहारा १ सुप्रदत्ता २, सुप्रबुद्धा ३ यशोधरा ४ । लक्ष्मीवती ५ शेषवती ६, चित्रगुप्ता ७ वसुन्धरा ८ ॥९॥.. एता दक्षिणरुचकपर्वतादेत्य भृङ्गारपाणयस्तिष्ठन्ति। इलादेवी १ सुरादेवी २ पृथिवी ३ पद्मवत्यपि ४ । एकनासा ५ नवमिका ६, भद्रा ७ शीते ८ ति नामतः ८॥१०॥ एताः पश्चिमरुचकपर्वनादेत्य व्यजनपाणयस्तिष्ठन्ति । अलम्बुसा १ मितकेशी २ पुण्डरीका ३ च वारुणी ४ । हासा ५ सर्वप्रभा ६ श्री ७ ही ८-रष्टोदगुरुचकाद्रितः ॥११॥ एता उत्तररुचकादेत्य चामरपाणयोऽवतिष्ठन्ति । चित्रा १ च चित्रकनका २, शतेरा ३ वसुदामिनी ४। दीपहस्ता विदिक्ष्वेत्या-स्थुर्विदिगरुचकाद्वितः॥१२॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy