SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रधाने चन्द्रयोगे अर्थान्नृपादीनां। सौम्यासु रजोवृष्टयाद्यभावात् शान्तासु, वितिमिरासु-भगवजामकाले सार्वत्रिकोद्योतसद्भावात् चन्द्रज्योत्स्नया वा ध्वस्तध्वान्तासु, विसुद्धासु-उल्कापाताद्यऽभावात् । जयोस्त्येष्विति जयिकेषु जयदायिकेषु सर्वशकुनेषुकाकोलुककपोतक्यादिषु, प्रदक्षिणश्चासावऽनुकूलश्च स तथा तस्मिन् भगवतः प्रदक्षिणवाहित्वादऽनुकूले, भूमिसप्पिणि-तृत्वाचण्डवातो-युञ्चः सप्पति, अत एव भूमिसर्पिणीत्युक्तं । अनेन च सूत्रेण वाते शीतलत्वसौरभ्यमृदुत्वलक्षणं गुणत्रयवर्ण्यमिति मूचितं तचैवं स्मेराम्भोरुहपत्तने परिमल स्तेयी बसन्तानिल- स्तत्रस्थैरपि यामिकर्मधुकरैरारब्धकोलाहलः। निर्यातस्त्वरया व्रजनिपतितः श्रीखण्डखण्डद्वै-लिप्ते केरलयोषितां कुचतटे खजः शनर्गच्छति ॥ १ ॥ तथा-लतां पुष्पवन्तीं स्पृष्ट्वा, सद्यः स्नातः सरोम्भसि। पुनस्तत्सङ्गशङ्कीति वाति वायुः शनैः शनैः ॥२॥ तादृशे मास्ते प्रवातुमारब्धे निष्पन्ना-निष्पन्नसर्वशस्या मेदिनी यत्र तादृशे काले-ऋतौ,प्रमुदिताः- | सुभिक्षसौस्थ्यादिना,प्रक्रीडिताश्च-वसन्तोत्सवादिना क्रीडितुमारब्धास्ततो विशेषणकर्मधारयः।जनपदेषु|| लोकेषु सत्सु आरोग्गत्ति अरोगा-अनाबाधा त्रिसला आरोग-अनायाधं दारकं वर्द्धमानं प्रजाता-सुषुवे ॥ [इति चतुर्थ व्याख्यानं समाप्तं.] [अथ पञ्चमं व्याख्यानं] "अचेतना अपि दिशः प्रसेदर्मुदिता इव । वायवोऽपि सुखस्पर्शा मन्दं मन्दं ववुस्तदा ॥१॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy