SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ कल्प ६७ आकाशे भव मा सुशेष्व शयने नीचैर्बहिर्गच्छ मा, देवी गर्भभरालसा निजसखीवर्गेण सा शिक्ष्यते ॥ १ ॥ तथा मातुर्दिवास्वापात्स्वापशीलः, अञ्जनादन्धः, रोदना द्विकृतदृष्टिः, स्नानानुलेपनाद्दुःशीलः, तैलाभ्यङ्गनात्कुष्ठी, नखापकर्तनात् कुनखी, प्रधावनाच्च चञ्चलः, हसनात् श्यामदन्तोष्ठतालुजिह्नः अतिकथनात्मलापी, अतिश्रवणाद्वधिरः, अवलेखनात् खलतिः, गर्भो भवतीति एवमादीन् गर्भसुखाय परिहरति । तथाच सूत्रं सव्वत्तु भयमाण त्ति-ऋतौ ऋतौ यथायथं भज्यमानाः - सेव्यमानाः, सुखाः-सुखहेतवो ये तैर्भीजनादिभिः तत्राच्छादनं प्रावरणं, गन्धाः - पटवासादयः, माल्यानि-पुष्पमालास्तैः। ववगयत्ति - रोगो-ज्वरादिकः, शोकः - इष्टवियोगादिकः, मोहो-मूर्च्छा, भयं-भीतिः परिश्रमो - व्यायामः । क्वचिद्भयपरित्तासा इति पाठः तत्र भयं भीतिमात्रं परित्रासोऽकस्माद्भयं । हिअमित्यादि - हितं - गर्भस्यायुर्मेधादिवृद्धिकारणं, परिमितं-नाधिकं ऊनं वा, पथ्यमारोग्यकारणत्वात्, किमुक्तं भवति? गर्भपोषणं तं देशे - उचितभूप्रदेशे, काले - तथाविधावसरे, विवित्तत्ति- विविक्तानि - दोषविमुक्तानि, लोकान्तरासंङ्कीर्णानि वा मृदुकानि च सुकोमलानि । पहरिक्कत्ति पतिरिक्तया- तथाविधजनापेक्षया विजनयात एव सुखया शुभया वा मनोऽनुकूलया विहारभूम्या - चङ्कमणाssसनादिभूम्या । पसत्थेत्यादि - प्रशस्तदोहदा - अनि न्यमनोरथा, सम्पूर्णदोहदा : (ग्रं. १३००) - अभिलाषपूरणात्, संमानितदोहदा प्राप्ताभिलषितस्य भोगात, अविमानितदोहदा - नावज्ञातदोहदा क्षणमपि नापूर्णमनोरथेत्यर्थः । अत एव व्यवच्छिन्न दोहदात्रुटिताकाङ्क्षा, दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानाय व्यपनीतदोहदा, सुखं सुखेन गर्भानबाधया आसइ दीपिका ६७
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy