SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ 21 म्भैः, किंवा परिदेवितेन, पर्याप्तं जीवितव्येन । करोमि वा प्राणव्यवरोपणेनैतदुक्खकाण्डपरिसमातिमिति तचिकीर्षरितस्ततो यथभ्रष्टमृगीव बंभ्रमीति । दृष्टा च तथारूपा स्वरूपनिरूपणचतरेण | सखीपरिकरेण पृष्टा च दौर्मनस्यकारणं । उवाच साश्रुनयना सनिश्वासं किमहं वदामि ? मन्दभाग्या ज्जगाम मे जीवितं । सख्यो जगुः-शान्तममङ्गलं, तव गर्भस्य कुशलं वर्तते?। सा प्रोचे-हे सख्यो गर्भयकुशले किं मे परं परिदेवनीयमस्ति, तद् हा! हता हताशेन देवेन सर्वस्वापहारेणेत्युक्त्वा भूमौ पतिता। पुनः सखीकृतोपचारा समुत्तिष्ठति विलपति च, तच्च श्रुत्वा विलपति सखीप्रमुखः सकलोऽपि परिकरः।। हा! हा! किं चक्रे दैवेनाऽस्मत्स्वामिन्या, हा! हा! कुलदेव्यो ! यूयं क्व गताः? यदुदासीनास्तिष्ठथ इत्यादि। तदा च कारयन्ति कुलवृद्वाः उपयाचितमन्त्रतन्त्रशान्तिकपौष्टिकादीनि शिष्टजनोचितानि कार्याणि । पृच्छति च निमित्तज्ञान् , निषेधयन्ति नाटकानि, निराकुर्वन्ति गाढशब्देन वचनानि, राजापि सलोकः सशोकोऽजनि, किं कर्तव्यतामूढा मन्त्रिणश्च। तदा च तं पिअ त्ति तदपि च सिद्धार्थराजभवनं उपरतंनिवृत्तं मृदङ्गतन्त्रीतलतालैः, प्राग्व्याख्यातैर्नाटकीयैर्नाटकहितैर्जनैः-पात्रैः । मणुज्जं ति भावप्रधानत्वात् निर्देशस्य मनोज्ञत्वं चारुता यस्मात्तत्तथा । अथवा उपरतमृदङ्गतत्रीतलतालनाटकीयजनं अणुज्जत्ति अतर्जमनोजस्कं वा अत तएव दीनविमनस्कं विहरति ॥ ९२ ॥ __तएणं समणे भगवं महावीरे माऊए अयमेआरूवं अत्भत्थि पत्थियं मणोगयं संकप्पं
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy