________________
S
पर्यन्तदुःखाभिमुखं कामसुखं, अलं अनेन मधुलिसखड्गधारालेहनतुलितेन विषयललितेन, किं वा मया पूर्वजन्मनि सुदुष्कृतं कृतं । यत आर्षम्
पसुपक्खिमाणुसाणं, बाले जो विहु विओअए पावो । सो अणवच्चो जायइ, अह जायइ तो विवाज्जिज्जा ॥२॥ किंवा मया पट्टकास्त्यक्ताः त्याजिता वा, किं वा लघुवत्सानां मात्रा वियोगः कृतः कारितोवा, किं वा तेषां दुग्धानामन्तरायः स्वयं कृतः कारितो वा, किं वा सबालकबिलानि वारिणा पूरितानि खानि तानि वा, किं वा नकुलकोलादिबिलानि खानितानि, कि वा कीटिकानगराणि साण्डानि प्लावितानि, किं वो शुक-सारिका-हंस-मयूर-कुर्कुटादीनां शिशुवियोगो दत्तः, किं वा साण्डकानि नीडानि पातितानि, किं वा धर्मबुद्धया काकाण्डानि स्फोटितानि, किं वा बालहत्या विहिता, किं वा सपत्नीपुत्राद्युपरि दृष्टं चिन्तितं कृतं वा, किं वा गर्भशातन्पातनानि समाचरितानि, तन्मन्त्रा वा प्रयुक्ताः, किं वा तदौषधान्युपदिष्टानि, किंवा कस्या अपि शिशोर्विषयेऽङ्गुलीभवत्वा शापःप्रदायि, किं वा शिशवो मया त्यक्ताः त्याजिता वा, अन्यदा किमपि पापं समाचरितं शीलखण्डनादि, यदीहर विधानत दुःखखानिः कृताऽहं अनेन दुर्दैवेन । तदरे ! दैव! निपुण! निर्दय! निष्करुण! पापिष्ट दुष्ट! वृष्ट! अशिष्ट! निष्ठुर! क्लिष्टकर्मकारक! निरापराधजनमारक! मूर्तिमत्वातक! विश्वस्तजनघातक! अकार्यसज्ज! निर्लज्ज! किं मे निष्कारणवैरी भवसि ? एवं विधदुःखसागरावतारणेन । किं वा रे दैव! मया तवापराडं, यन्त्र निवेदयसि प्रकटीभूय दुष्टानि मच्चेष्टितानि, किं वान्तर्गडुरिव विडम्बयसि ? अलं वाऽलीकैर्दैवोपाल
-