________________
कल्प
दीपिका
पुद्गलपिण्डतापर्यायात् परिभ्रष्टः? गलितो-द्रवभावमापद्यक्षरितःचतुषु पदेषु का क्वा विकल्पः। एजति-कम्पते। उपइतमनःसङ्कल्पा-उपहता-कालुष्यकलितोमनसि सङ्कल्पो यस्याःसा, तथा चिन्तयागर्भहरणादिध्यानेन यः शोकः स एव सागरस्तत्र सम्प्रविष्टा । करतले पर्यस्तं निवेशितं मुखं यया सा, तथा आतंत्र्यानो पगतेति प्रतीतम्, भूमिगतदृष्टिका-भूमिसंमुखमेव किंकर्तव्यजडतया वीक्ष्यमाणा ध्यायति । तद्यथा6. यदि सत्यमिदं जज्ञे, गर्भस्याऽस्य कथञ्चन । तदा नूनमभाग्याहं, भूमौ निष्पुण्यकाऽवधिः ॥१॥
यद्वा । नाऽभाग्यस्य निकेतने चिन्तारत्नमवतिष्ठते, न हि दरिद्रस्य गेहे निधिः प्रकटीभवति, न हि कल्पपादपो मरुभूमौ चिराय अवतरति। न हि निष्पुण्याना पिपासितानां अमृतपानेच्छा पूर्यते । हा धिग् दैवं, तदेतत्किं विचक्रे वक्रेण तेन यत्समूलमुन्मूलितो मन्मनोरथकल्पशाखी, तदद्य गृहीते दत्वापि लोचने प्रदाऽपि निधिरुद्दालितः, पातिताहं मेरोः शिखरमारोप्याऽपि, यद्वा मया किमपराद्धम् अस्य देवस्य अस्मिन् भवे भवान्तरे वा । अथवा
किं करोमि क्व गच्छामि, कस्याने वा वदाम्यहम् । दुर्विदग्धदैवेन, जग्धा दग्धा च पातकैः ॥ १॥
किं वाऽनेन राज्येन, किं वाऽनेन सुखेन आयतिविमुखेन, किं वा मङ्गलिककल्पनाकल्पितेन सखीजनजल्पितेन, किं वा मनमुखातिरिक्तेन विषयसुखभुक्तेन, तत्तथाविधं चतुर्दशस्वमसूचितं त्रैलोक्यपूजोचितं निरतिशयगुणाश्चितं त्रिभुवनाऽसपत्नं सुतरत्नं विना । घिर धिक् संसारं असारं, धिक्