________________
कल्प
| पेतानि-खेटानि, कर्बटानि-कुनगराणि, मडम्बानि-सर्वतोऽर्डयोजनात्परतोऽवस्थितप्रामाणि, द्रोण- दीपिका मुखानि-यत्र जलस्थलपथौ स्तः, पत्तनानि-जलस्थलपथयोरन्यतरेण पथा युक्तानि, आश्रमास्तीर्थमुनिस्थानानि, सम्बाहाः-समभूमौ कृषि कृत्वा येषु दुर्गभूमिषु धान्यानि कृषीवलाः संवहन्ति रक्षार्थ, संनिवेशाः-सार्थकटकादेस्ततो बन्दः । शृङ्गाटक-शृङ्गाटकाकारत्रिकोणस्थानं, त्रिक-यत्र रथ्यात्रयं मिलति, चतुष्कं यत्र रथ्याचतुष्कं मिलति, चत्वरं-बहुरथ्यापातस्थानं, चतुर्मुखं चतुर्दार देवकुलादि, महापथो-राजमार्गः, ग्रामस्थानानि-शून्यग्रामा,नगरस्थानानि-उसिननगरभूमयः,ग्रामनिर्डमनानि-ग्रामजलानिर्गमरूपाणि खालमिति प्रसिद्धानि, एवं नगरनिईमनानि, आपगानि-हहाः, देवकुलानि-यक्षा चायतनानि, सभा-जनोपवेशनस्थानानि, प्रपाः प्रतीताः, आरामा-विविधलतोपेता ये कदल्यादिनच्छन्नगृहेषु सस्त्रीणां पुंसां क्रीडास्थानभूमयः, उद्यानानि-येषु सच्छायपुष्पफलवृक्षेषु उद्यापनिकया लोकैर्गम्यते, वनानि-एकजातीयवृक्षाणि, तान्येवानेकजातीयवृक्षाणि वनखण्डानि, श्मशानं प्रतीतं, सुन्नागारंतिशून्यगृहं, गिरिकन्दरा-गुहा, शान्तिगृहाः-शान्तिकस्थानानि। संधीति पाठे संधिगृहं-भित्योरन्तराले प्रछन्नस्थानं, शैलगृहं-पर्वतमुत्कीर्य यत्कृतं, उपस्थानगृहं-आस्थानमण्डः , ततः श्मशानादीनां बदः। तेषु संनिखित्ताइंति सम्यग्निहितानि तिष्ठन्ति तानि सिद्धार्थभवने साहरंति ति प्रवेशयन्ति-निक्षेपयन्ति इति ॥ ८८॥