________________
दीपिका
विभूषितश्च फलादिभिः कल्पवृक्षो, राजा तुमुकुटादिभिरलङ्कृतो विभूषितश्च वस्त्रादिभिरिति।सको- रिण्टकानि कोरिण्टाभिधानकुमुमस्तबकवन्ति माल्यदामानि-पुष्पस्रजो यन्त्र, तेन कोरिण्टकः-पुष्पवृक्षजातिस्तत्पुष्पाणि च मालान्ते शोभार्थ दीयन्ते दुरितोपशमार्थ वा मालायै हितानि माल्यानि-पुष्पाणि | तेषां दामानि-माला इति । सेअचामरेहिं ति-यद्यपि चामरशब्दो नपुंसकलिङ्गे रूढस्तथापीह स्त्रीलिङ्गतया | निर्दिष्टः तथैव गौडमते रूढत्वात् । मङ्गलभूतो जयशब्दः कृत आसमन्ताल्लोकेन यस्य सः, अनेके ये गणनायका:-प्रकृतिमहत्तराः, दण्डनायकाः-तन्त्रपालाः, राजानो-माण्डलिकाः, ईश्वरा-युवराज.नः अणिमाचैश्वर्ययुक्ता इत्यन्ये, तलवरा:-परितुष्टनृपदत्तपट्टबन्धविभाषिता राजस्थानीया, माडम्बिका:-छिन्नमडम्याधिपाः, कौटुम्बिकाः कतिपयकुदम्बप्रभवोऽवलगकाः-ग्राममहत्तरा वा, मन्त्रिणः-सचिवाः, महामन्त्रिणो-मन्त्रिमण्डलप्रधाना, गणका-ज्योतिषिका भाण्डागारिका वा, अमात्या-राज्याधिष्ठायकाः, चेटा:पादमूलिका दासा वा, पीठमईका-आसन्नासन्नसेवकाः वयस्या इत्यर्थः वेश्याचार्या वा, नागरा:-नगरवासिप्रकृतयो राजदेयविभागाः, निगमाः-कारणिका वणिजो वा, श्रेष्ठिनः-श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गाः, सेनापतयश्चतुरङ्गसैन्यनायकाः, सार्थवाहाः-सार्थनायकाः, दूता-अन्येषां राजादेशनिवेदकाः, सन्धिपाला-राजसन्धिरक्षका एषां इन्द्रः ततस्तैरिह तृतीयाबहुवचनलोपो द्रष्टव्यः । सद्धि ति-साई सहेत्यर्थः, न केवलमेतत्सहितत्वमेवाऽपि तु तैः 'सं' इति समन्तात् परिवृत्तः-परिकरित इति नरपतिर्मजनगृहात्पत्तिनिष्कामति इति सम्बन्धः। किंभूतः? प्रियदर्शनः । क इव ? धवलमहा