SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ " - व्याप्नुवन्तं। कालागुरु त्ति,कालागुर्वाधाः प्रागुक्तास्ते च ते दह्यमानो धूपश्च दशाङ्गादिः-वासंगानि च-गन्धमालिनीग्रन्थोक्तसुरभीकरणोपायभूततत्तद्रव्याणि च तेषामुत्तमेन गन्धेनोडुतेन-इतस्ततो विप्रसृतेनाभिराम।सेयमिति-श्वेतं,सेअप्पहं ति-श्वेतप्रभ, सुरवरान् अभिरमयति इति सुरवराभिरामं,यदा सुराणां वराः श्रेष्टाः अभिसमन्ताद्रामा-नायिका यत्र तत्, सातस्य-सातावेदनीयस्य उपभोगो यत्र पञ्चविधसुखसम्पत्तेः तत् सातोपभोगम् । ४४ । १२।। तओ पुणो पुलग-वेरिंद-नील-सासग-कक्केयण-लोहियक्ख-मरगय-मसारगल्ल-पवाल-फलिह-सोगंधिय-हंसगब्भ-अंजण-चंदप्पह-वररयणेहिं महियलपइट्ठियं, गगनमंडलंतं पभासयंतं, तुंगं, मेरुगिरिसन्निकासं, पिच्छइ, सा रयणनिकररासिं । १३ ॥ ४५ ॥ व्याख्या-ततः पुनः सा रत्ननिकरराशिं पश्यतिरित्ननिकराणां राशिरुछूितसमूहविशेषस्त,पुलकादयो रत्नविशेषाः प्रसिद्धाः,नवरं वेरत्ति वज्र,सासगत्ति-शस्यकं,चन्द्रप्रभः-चन्द्रकान्तः,महीतलप्रतिष्ठितमिति राशेर्विशेषणं, पुलकादिवररत्नैर्गगनमण्डलान्तं यावत्प्रकाशयन्तं, तुझं-उच्च, उच्चत्वं च वस्त्वन्तरापेक्षयाऽनियतस्वरुपमत आह मेरुगिरिसंनिकाश-मेरुगिरितुल्यम् । ४५। १३ । सिहिं च सा विउलुज्जलपिंगलमहुघयपरिसच्चमाणनिळूमधगधगाइयजलंतजालुज्जलाभिरामं, 59
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy