SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ दीपिका गंधव्वोपवज्जमाणसंपुन्नघोसं, निचं, सजलघणविउलजलहरगज्जियसबाणुनाइणा देवदुंदुहिमहाखेणंसयलमवि जीवलोयं पूरयंतं, कालागुरु-पवरकुंदुरुक्क-तुरुक्क-डझंतधूव-चासंगउत्तममघमघंतगंधुद्धयाभिरामं, निचालोयं, सेयं, सेयप्पभ, सुखराभिरामं, पिच्छइ सा सातोवभोगं, वरविमाणपुंडरीयं । १२ ॥ ४४ ॥ .. ततः सा पुनर्विमानं पुण्डरीकं प्रेक्षते, विमानवरेषु मध्ये पुण्डरीकमिव श्रेष्ठत्वात् । तरुणसूरमंडलसमप्रभं, दीप्यमानशोभ, उत्तमकाञ्चनमहामणिसमूहैः प्रवराणां तेयत्ति तेकते-गच्छन्त्याधारभावं इति तेका लिहादित्वादचि अथवा त्रायन्ते गृहं पतदिति कर्तरिय प्रत्यये त्रेयाः स्तम्भास्ततस्तेकानांत्रेयाएणां वा स्तम्भानां अष्टसहत्रेण-अष्टोत्तरसहस्रेण देदीप्यमानं सत् नभः प्रदीपयति-प्रकाशयति तत्तथा । कनकप्रतरेषु-सुवर्णपत्रकेषु लम्पमानाभिः मुक्ताभिः समुज्ज्वलं, यहा कनकप्रकारैर्लम्बमानमुक्ताभिश्च समुज्ज्वलं। इहामृगा-वृकाः, वालग त्तिव्याला:-सर्पाः,रुरुत्ति-करवो-मृगभेदाः, सरभा-अष्टापदाः, संसक्ताः-श्वापदविशेषाः, वमलता-अशोकलताद्याः, पद्मलताः पभिन्यः एतेषां भक्तिभि-विच्छित्तिभिः चित्रं-नानारूपं । गन्धर्वस्य गीतस्य उपवाद्यमानस्य वादिनस्य च सम्पूर्णो घोषो यत्र तत्तथा,नित्यं-शाश्वतं, सजलो-जलपूर्णो घनो-ऽविरलोविपुल:-पृथुजलधरो-मेघस्तस्य गर्जितं शब्दस्तदनुनादिना प्रतिरवयुक्तेन देवदुन्दुभिमहारवेण सकलमपि जीवलोक-प्राणिगणं पूरयन्तं आप्याययन्तं चतुर्दशरज्ज्वात्मकं वा लोकं
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy