________________
कल्प
४५
हाभिधानं अतिबहुत्वख्यापनार्थ, तैरवलिह्यमानानि कमलानि यत्र तत् । कादम्बकाः कलहंसाः, बलाहकाः बलाकाः, चक्राश्चक्रवाकाः, कला - मधुरध्वनयो हंसाः - राजहंसाः, सारसा दीर्घजानुकाः ते च ते गर्विताः-सुस्थानप्राप्तिदृताः शकुनिगणाश्च पक्षिसमूहाश्च तेषां मिथुनैः - द्वन्द्वैः सेव्यमानसलिलं, पद्मिनी पत्रोपलग्ना ये जलबिन्दवस्तेषां निचयेन चित्रं मण्डितमेव, क्वचिच जलविन्दुमुत्तचित्तं इति पाठस्तत्र जलबिन्दव एवमुक्ता मौक्तिकानि ताभिश्चित्रमिति व्याख्येय । सरस्तु-सरोवरेषु अर्ह - पूज्यं अतएवाभिरामं सरोऽ हभिरामं, उच्चार्हतीति हकारात्पूर्व उकारः ॥ ४२ ॥ १० ॥
तओ पुणो चंदकिरणरासिसरिससिखिच्छमोहं, चउगमणपवडूमाणजलसंचयं, चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं, पडुपवणाहयचलियचवलपागडतरंगरंगतभंगखोखभमाणसोभंतानम्मलउक्कडउम्मीसहसंबंध वावमाणोनियत्तभासुरतराभिरामं महामगर - मच्छ- तिमितिमिंगिल-निरुद्धतिलितिलियाभिघाय कप्पूरकेणपसरं, महानईतुरियवेगमागयभम गंगावत्तगुप्पमाणुचलंतपञ्चोनियत्तभममाणलोलसलिलं, पिच्छा, खीरोयसायरं, सारयरयणिकरसोमवयणा ॥ ४३ ॥ ११ ॥
पुनः क्षीरसागरं सा रजनाकर सौम्यवदना पश्यति । चन्द्रकिरणराशेः सदृशा श्रीर्वक्षः शोभा यस्य स तथा तम् वक्षः शब्देनात्र मध्यभागा लक्ष्यते । चतुर्षु गमनेषु चतुर्दिग्मार्गेषु प्रवर्द्धमानः परिवर्त
दीपिका
४५