________________
दीपिका
तओ पुणो जच्चकंचगुज्जलंतस्वं, निम्मलजलपुन्नमृत्तमं, दिप्पमाणसोह, कमलकलावपरिरायमाणं, पडियुन्नयसबमंगलभेअसमागम, पवररयणपरायंतकमलट्ठिअं, नयणभूसणकर,पभासमाणं, सवओ चेव दीवयंतं, सोमलच्छीनिभेलणं, सव्वपावपखिज्जि, सुभ, भासुरं,सिखिरं, सव्वोउअसुरभिकुसुमआसत्तमल्लदाम, पिच्छइ, सा रययपुन्नकलसं । ९ ।। ४१ ॥ ततः सा रजतपूर्णकुम्भं पश्यति । जात्यकाञ्चनवदुत्माबल्येन ज्वलद्रूपं यस्य तं । कमलकलापेन |
ना परिराजमानं, प्रतिपूर्ण एव प्रतिपूर्णकास्ते च ते सर्वमङ्गलभेदाश्च-सर्वकल्याणविशेषाश्च | तेषां समागमो-मेलकस्थानं, प्रवररत्नैः प्रराजति-प्रकर्षेण शोभमाने कमले प्रतिष्ठितं, नयनानामानन्दकत्वात् भूषणं करोतीति नयनभूषणकरं दृष्टेहिं चारुरुपावलोकनमेव भूपणं, प्रभासमानं-स्वयं दीप्यमानं प्रभया वाऽसमानं, अत एव सर्वत एव सर्वा दिशो दीपयन्तं-उद्योतयन्तं, सोम्यलक्ष्म्याः -प्रशस्तसम्पदो निभेलणं ति देश्यत्वाद् गृहं,सर्वैः पापेरशिवैःपरिवर्जितं,अत एव शुभंभासुरं-दीप्तं,श्रीवरं त्रिवर्गरुपया | श्रिया वरं श्रेष्टं तदागमसूचकत्वात्, सर्वर्तुजानां सुरभिकुसुमानां आसक्तं कण्ठस्थं माल्यदाम यस्मिन् । स तथा तं । 'अत्र दामशब्दः प्रशंसावचनो यथावनान्तकपोतपालीत्यादो अन्तपाली शब्दो'। रजतपूर्ण कलशं न च जात्यकाञ्चनो ज्वलद्रूपमिति विशेषणात् स्वर्णमयोऽयं तथा च पूर्वापरविरोध इत्याशङ्कनीय जात्यकाश्चन (ग्रं. ९००) वत्मावल्येन ज्वलद्दीप्यमानं रूपं यस्येति व्याख्यया तदाशङ्काया दूरापास्तत्वादिति। ४१।९।