________________
मार्गे तु दश सार्द्धानि शतान्येवं च फाल्गुने । पोष एव परं मासि सहस्रं किरणा रवेः ३७।३९ तओ पुणो जच्चकणगलहिपइटिअं, समूहनीलरत्तपीअसुकिलसुकुमालुल्लसिअरोमापिच्छकयमुद्धयं, धयं अहिअसस्सिरीअं, फालिअ-संख-क-कुंद-दगरयरययकलसपंडुरण मत्थयत्थेण सीहेणरायमाणेण रायमाणं, भित्तु गगणतलमंडलं चेव ववसिएणं पिच्छइ, सिवमउअमारुअलयाहयकंपमाणं अइप्पमाणं जणपिच्छणिज्जरुवं । ८॥ ४०॥
ततो ध्वजं पश्यति।समूहोऽसत्येषामिति समूहः अभ्रादित्वाद् अ प्रत्यये समूहवन्तः-प्रचुरास्तैर्नीलरक्तपीतशुक्लैः कृष्णस्य नीलादनतिविप्रकर्षः ततः पश्चवर्णैः सुकुमारैः कोमलैः उल्लसद्भिातेन स्फुरद्भिर्मयूरपिच्छै:-मयूरपक्षैः कृता मूर्द्धजा इव केशा इव यस्य स तम् । अधिकं सश्रीकं अतीवशोभायुक्तं, फालिअ त्ति स्फटिकं शङ्क:-कम्बुः, अङ्क:-रत्नविशेषः,कुन्दमाल्यं, दकरजांसि-जलकणाः, रजतकलश:-रूप्यमयकुम्भस्तद्वत्पाण्डुरेण मस्तकस्थेन राजमानेन गगनमण्डलं भेत्तु व्यवसितेनेव कृतोद्यमेनेव अत्युच्चत्वादियमुत्प्रेक्षा, सिंहेन भगवल्लाञ्छनभूतसिंहाकारपताकया सिंहचित्रेण वा राजमानं, शिव:सौम्यो, मृदुरचण्डो मरुतो-वायुस्तस्य लयः-श्लेषस्तेनाहतं-अन्दोलितं अतएव प्रकम्पमानमितस्ततो नृत्यमानं, अथवा शिवमृदुकमारुताहतलतावत्प्रकम्पमानं इति व्याख्येयं । आर्षत्वादाहतस्य परनिपातः॥ ४० ॥८॥