SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ दीपिका सूर्यमण्डलवर्तिबादरपृथ्वीकायिकाः शीतला एवाऽथवा चेव त्ति समुच्चयार्थः । रक्ताशोकस्य प्रकाशश्च किंशुकश्च शुकमुखं च गुजार्डश्चतेषांरागेण सदृशं आरक्तत्वात्। कमलवनमलङ्करोतोति विकाशश्रिया वि. भूषयतिस तथा तं अङ्कनं ज्योतिषस्य ज्योतिषां समूहोज्यौतिष ज्योतिश्चक्रतस्याङ्कन मेषादिराशिसङ्क्रमणादिना लक्षक-ज्ञापक, अम्बरतलपदीपं,हिमपटलं गले गृहातीति हिमपडलगलग्रहः अवश्यायराशेर्गलेहस्तयिता तं, ग्रहगणस्य ऊरुमहान् नायकः स तथा तं,उदयास्तमनयोर्मुहूर्तसुखदर्शनं, अन्यदा दुर्निरीक्ष्यरूपंरात्रिरेव शुद्धान्तोऽन्तःपुरं तत्र दुक्खेन योऽसौ प्रचारः तत्प्रमर्दनं यथा हि-राज्ञामन्तःपुरे प्रचारो दुष्करः तथा रात्रावपि तमोविलुप्तचक्षुषां पथिकानां सूर्योदये तु सुकरः प्रचारः । रत्तिमुद्धंतत्ति पाठे तु रात्रौ मस्यालाक्षिणकत्वात उद्धावत-उच्छङलान प्रचारात चौरादीन प्रमईयति यस्तं, शीतवेगस्य मथन-विध्वं सकं, मेरुगिरिं सततं-नक्तं दिवं परिवर्तयति-प्रदक्षिगयति मेरुगिरिसततपरिवर्तकः, रश्मिसहस्रेण प्रगलिता प्रदलिता वा दीप्तानामपि चन्द्रादीनां शोभा यस्माद्येन वा स तम् । अत्र रश्मिसहस्राभिधानं रुढथावसेयं, अन्यथाधिक्यमपि रविरश्मीना लोकशास्त्रेषच्यतेः [ऋतुभेदात् पुनस्तस्यातिरिच्यन्तेऽपि रश्मयः] "शतानि द्वादश मधौ त्रयोदशैव माधवे। चतुदर्शः पुनज्येष्ठे नभोनभस्ययोस्तथा ॥१॥ पञ्चदशैव त्वाषाढे षोडशैवं तथाश्विने। कार्तिकेत्वेकादश शतान्यैवं तपस्यति ॥ २॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy