________________
सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एआरुवे ओराले कल्लाणे जाव चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा तं जहा-गय १ वसह २ सीह ३ मभिसेअ ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं९। पउमसर १० सागर ११ विमाण १२ भवण १२ रयणुच्चय १३ सिहिं च १४ ॥३२॥
व्याख्याः-जं रयणिमित्यादितः......सिंहिं चेत्यन्तम् । तत्र तंसीत्यादि-तस्मिन तादृशके वक्तु| मशक्यस्वरूपे पुण्यवतां योग्ये वासघरंसि त्ति-वासगृहे, 'अन्भितरो त्ति' अभ्यन्तरे भित्तिभागे सचित्रकर्मणि-चित्रकर्मयुक्ते । बाह्यतः 'दुमिअत्ति' धवलितं, घृष्टं-कोमलपाषाणादिनाऽत एव मृष्टं-मश्रृणं तस्मिन् । विचित्रो-विविधचित्रयुक्तः उल्लोकः-उपरिभागो यत्र, चिल्लिअं-दीप्यमानं तलमधोभागो यत्र ततः कर्मधारयः' । विचित्तउल्लोअचित्तिअतले इति पाठे विचित्रम्-आश्चर्यवहम, उल्लोचस्य वितानस्य चित्रितं विविधचित्रोपेतं तलमधोभागो यत्र तस्मिन् । बहुसमसुविभत्तभूमिभागे-बढ्वत्यर्थ पश्चवर्णमणिकुहिमतलाऽऽकलितत्वात्,समोऽनिम्नोन्नतः,सुविभक्तो-विहितविविधस्वस्तिकोभूमिभागो यत्र । पंचवण्णेत्यादि-पश्चवर्णेन सरसेन सुरभिणामुक्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पुजया कलिते। कालागुरुपवरेत्यादि कालागुरु च-कृष्णागुरु, प्रवरकुन्दरुक्कं च-चीडा,तुरुष्कं च-सिल्हकं दह्यमानो धूपश्चदशाङ्गादिगन्धद्रव्यसंयोगजः इति द्वन्द्वस्तेषां यो मघमघायमानोऽतिशयगन्धवान् गन्ध उध्धुत-उद्भूतस्तेनाभिरामः। सुगन्धवरगन्धिए त्ति सुष्टु गन्धवराणां-प्रधानवासानां गन्धो यस्मिंस्तत्सुगन्धवरग