SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सहस्रं तपस्यन् मासोपवासपारणे मथुरां प्रविष्टः, तत्र चैकया गवा भूपातितः सन् क्षत्रियैर्हसितः । ततः क्रुधा तां गां शृगयोर्गृहीत्वा खे भ्रामयत्, तपसा चानेन भूयिष्ठवीर्यो भूयासमिति निदानं चक्रे । ततो मृत्वा सप्तदशे भवे शुक्रे सुरः । ततोऽष्टादशे भवे पोतनपुरे प्रजापते राज्ञो मृगावत्याः कुक्षौ चतुरशीतिलक्षवर्षायुस्त्रिष्टष्टाख्यो हरिस्ततो मृत्वैकोनविंशतितमे भवे सप्तमपृथिव्यां नारकः । ततो विंशतितमे भवे सिंहः । ततो एकविंशतितमे भवे चतुर्थभूवि नारकः । ततस्तिर्यगादि भवं भ्रान्त्वा द्वाविंशतितमे भवे मनुजत्वं प्राप्यार्जितशुभकर्मा त्रयोविंशतितमे भवे मुकाराजधान्यां धनञ्जयधारिण्यो गृहे चतुरशीतिलक्षपूर्वायुश्चतुर्विंशतितमे भवे शुक्रे सुरः । ततः पञ्चविंशतितमे भवे भारतेऽत्र छत्रिकापूर्वी जितशत्रो राज्ञो भद्रायाः कुक्षौ पञ्चविंशतिलक्षवर्षायुर्नदनाख्यः सुतः, स च पोहिलाचार्याsन्तिके प्रव्रज्य सततं मासोपवासैर्विंशत्या स्थानैस्तीर्थकृत् नामगोत्रं निकाचयित्वा लक्षवर्षव्रतपर्यायो माससंलेखनया षडूविंशतितमे भवे प्राणते पुष्योत्तरावतंसकविमाने उत्कृष्टायुर्देवस्ततः सप्तविंशतितमे भवे ब्राह्मणकुण्डग्रामनगरे ऋषभदत्तस्य विप्रस्य देवानन्दायाः पत्न्याः कुक्षावुत्पन्नः । यन्मरीचि भवे नीचै गोत्रकर्मबद्धं तद्वशात् प्रभुर्विप्रकुले चागात् । परं न तत्र जन्म स्यादत आह- नो चेव णं जोणी जम्मणनि क्खिमणेणं ति-योन्या जन्मार्थ निःक्रमणेन निक्खमिसु वेत्यादि निष्क्रामन् निःक्रामन्ति निष्क्रमिष्यन्ति ।। १९ ।। ६
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy