SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ कल्प२६ कः शिष्योऽस्तु । इति चिन्तापरस्य निरुजस्तस्य कपिलाख्यो राजपुत्रो मिलितः । सः तद्देशनया प्रबुडस्तेनोक्तम्'भोः कपिल ! साधुपार्श्वे गत्वा धर्मं प्रपद्यस्व' इत्युक्ते कपिलोऽवकू' किं भवन्मार्गे धर्मो नास्ति' ततो मरीचिः 'कविला इत्थं पि इयं पि त्ति' उत्सूत्रं बभाषे । ततः स तदन्तिके प्रत्रजितः । ततो मरीचिश्चतुरशीतिलक्षपूर्वायुर्भुक्त्वा चतुर्थभवे ब्रह्मलोके उत्कृष्टायुः सुरः । ततः इच्युतः पञ्चमे भवे कोल्लाकसन्निवेशेऽशीतिलक्षपूर्वायुः कौशिको द्विजः । प्रान्ते त्रिदण्डी भूत्वा मृत्वा पद्मानन्दकाव्यानु सारेण षष्ठे भवे सौधर्मे सुरः तदपेक्षया च द्वाविंशतितमो मनुजभवो न गण्यते इति न भवाधिक्य शङ्कापि । श्रीवीरचरित्राद्यनुसारेण तु तिर्यगादिभवं भ्रान्त्वा षष्ठे भवे स्थुणापूर्यौ द्वासप्तति लक्षपूर्वायुः पुष्पो द्विजः, प्रान्ते त्रिदण्डी भूत्वा मृत्वा च सप्तमे भवे सौधर्मे सुर. ॥ ७ ॥ ततः इच्युतोऽष्टमे भवे चैत्यसन्निवेशे षष्टिलक्षपूर्वायुरग्निद्योतो द्विजः ||८|| प्रान्ते च त्रिदण्डी भूत्वा मृत्वा नवमे भवे इशाने सुरः ॥ ९ ॥ ततो दशमे भवे मन्दरग्रामे षट्पञ्चाशल्लक्षपूर्वायुरग्निभूतो द्विजोऽन्ते त्रिदण्डी । चैकादशे भवे सनत्कुमारे सुरः । ततो द्वादशे भवे श्वेताम्यां पूर्वी चतुचत्वारिंशल्लक्षपूर्वायुर्भारद्वाजो द्विजोऽन्ते त्रिदण्डी च । त्रयोदशे भवे माहेन्द्रे सुरः । ततो भूयो भवं भ्रान्त्वा चतुर्दशे भवे राजगृहे चतुत्रिंशलक्षपूर्वायुः स्थावरो द्विजोऽन्ते त्रिदण्डी च मृत्वा पञ्चदशे भवे ब्रह्मलोके सुरः । ततो भूयोऽपि भवं भ्रान्त्वा षोडशे भवे विश्वभूतिर्नाम कोटिवर्षायुः क्षत्रियोऽभूत् स च सम्भूतिमुनिपार्श्वे प्रव्रज्य वर्ष प्रदीपिकाः २६
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy