SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ - K/ शाङ्गीकोऽन्यदा ग्रीष्मेऽस्नानादिपीडामसहमानः गृहगमनमयुक्तमिति जानंश्च त्रिदण्डी जातः । ततः प्रभुणैव साई विहरन्ननेकभव्यजनान् प्रबोध्य प्रभोः शिष्यतयार्पयति।इतश्चायोध्यायांसमवसृतः स्वामीभरतेन पृष्टः. 'हे प्रभोऽस्यां पर्षदि भारतक्षेत्रे कोऽपि भावी तीर्थकदित्युक्ते' स्वाम्याह-मरीचिरयं वीराख्योऽन्त्यतीर्थकृद्धिदेहे मुकाराजधान्याम प्रियमित्राख्यश्चक्री, भारतेऽत्र त्रिपृष्टनामाद्यो हरिश्च भविव्यतीति प्रभूक्तं श्रुत्वा भरतो हृष्टः । ततः प्रभु नत्वा गत्वा च मरीचिं स्वाम्युक्तं वचो निवेद्य नवेत्यवदत्-'नच ते पारिप्रव्रज्यं वन्दे, किन्वन्तिमो जिनो भविष्यस्यतो वन्दे, ततो मरीचिरपि भरतवचः श्रुत्वा हर्षात्त्रिपदीमास्फोट्य नृत्यन्नित्यवोचत् । "जइ वासुदेवपढमो, मूआइविदेहचक्कवट्टित्तं। चरमो तित्थयराणं, होउ अलं इत्ति मज्झ॥१॥ | अहयं च दसाराणं, पिआ मे चक्कवहिवंसस्स । अजो तित्थयराणं, अहो कुलं उत्तम मज्झ ॥२॥ ___ इति च मदान्नीचैर्गोत्रं षबन्ध । यदुक्तं जातिलाभकुलैश्वर्यबलरूपतप श्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ॥ १॥ ततो मरीचिः प्रभो निवृत्ते साधुभिः सह विहरन् प्राग्वत् साधुभ्यः शिष्यान् ददौ । एकदा चतं * ग्लानं न कोऽपि साधुः सुश्रुषति सोऽचिन्तयदेते मद्बोधिता अपि न मां सेवन्तेऽतो रोगमुक्तस्य ममै
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy