SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ भिक्खायस्कुलेसु वा माहणकुलेसुवा, आयाइंसु वा, आयाइति वा, आयाइस्संतिवा ॥१७॥ न खलु एअमित्यादित....आयाइस्संति वेत्यन्तम् । तत्र अन्तकुलेसु इत्यादि-अन्त्या-जघन्या अन्तवर्णM त्वात् शुद्रा वा, प्रान्ता-अधमाः, तुच्छा:-कुटुम्बस्य ऋद्वेल्पित्वेन, दरिद्राः-सर्वथा निर्धनः, कृपणा:|मितम्पचाः, भिक्षाचरा:-तालचराद्या, ब्राह्मणा-दिजाः तेषां कुलानि तेषु । 'आयाति धातुरागमे-जन्मनि युज्यते'। आयासिपुः-जज्ञिरे, आयान्ति-जायन्ते, आयास्यन्ति-जनिष्यन्ति ॥ १७ ॥ एवं खलु अरिहंता वा चक्वटी वा बलदेवा वा वासुदेवा वा, उग्गकुलेसु वा भोगकुलेसु वा राइनकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हखिंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु वा विसुद्धजाइकुलवंसेसु वा आयाईसु वा आयाइति वा आयाइस्संति वा ॥ १८॥ एवं खल्वित्यादितः-आइस्संति वेत्यन्तम्। तत्रोग्रा-आदिदेवेनारक्षकतया नियुक्ताः। भोगा-गुरुतया ये व्यवहृताः । राजन्या-वयस्यतया ये स्थापिताः। इक्ष्वाकव-आयवंश्याः, क्षत्रिया-ये शेषप्रकृति तया स्थापिता राजकुलीनाः। हरिवंश-हरिवर्षक्षेत्रानीतयुगलोद्भवास्तेषाम् कुलेषु । अन्यतरेविति-ज्ञातका भट-मल्लकि-लेच्छकि कौरव्यादिकुलेषु, तत्र ज्ञाताः-श्रीऋषभस्वजनवंशजा इक्ष्वाकुवंश्या एव, भटा:-सूर्य वन्तो योधाः, मल्लकिनोलेच्छकिनश्च राजविशेषाः, कौरव्याः-कुरुवंशजाः। विशुद्धजातिकुलवंशेषु-जातिमातृकी, कुलं पैतृकं, विशुद्धे ते येषु वंशेषु पुरुषान्वायेषु ॥ १८॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy