SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ - चक्रवर्तिन इव धर्मवरचातुरन्तचक्रवर्तिनस्तेभ्यः। दीवोत्ताणमित्यादिषु 'प्रथमा चतुर्थ्यर्पा षष्ट्यर्थतया । योज्या' तत्र दीप इव दीपः समस्तार्थप्रकाशकत्वात्, द्वीप इव द्वीपो वा भवाब्धिनिमज्जजन्तुनाम् विश्रामहेतुत्वात्, त्राणमनर्थप्रतिहननहेतुत्वात् त्राणम्, शरणमर्थसंपादनहेतुत्वाच्च शरणं। गम्यते सुस्थिलथै दुस्थितैराश्रीयत इति गतिः। प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा संसारगर्त पतत्प्राणिगणस्याधारः। 'अप्रतिहतवरज्ञान दशर्नेभ्य':-अप्रातहते-कट कुट्यादिभिर्वरे क्षायिके ज्ञानदर्शने धरन्तीति तेभ्यः। 'व्यावृत्तछद्मभ्य:-व्यावृत्तं छद्म-धातिकर्माणि संसारो वा येभ्यः इति तेभ्यः। 'जिनेभ्यो-रागादीनाम् जेतृभ्यः, 'जापकेभ्य:-अन्यैरपि। तान जापयद्भयः। 'तीपणेभ्यो' भवार्णवं, 'तारकेभ्योऽन्येषामुपदेशवर्तिनः। 'बुद्धेभ्यः' स्वयमज्ञाननिद्राप्रसुप्ते विश्वे । बोधकेभ्योऽन्यानपि बोधयन्तीति तेभ्यः । 'मुक्तेभ्य:-बाह्याभ्यन्तरग्रन्थबन्धान्मुक्तास्तेभ्यः। मोचकेभ्योऽन्येषामपि एतानि विशेषणानि भवावस्थामाश्रित्योक्तानि । ___ अथ सिद्धस्थावस्थामाश्रित्योच्यन्ते-'सर्वज्ञेभ्य:-सर्व विशेषरूपं जानन्तीति सर्वज्ञास्तेभ्यः । र्वदर्शिभ्यो-सर्व सामान्यरूपतया च पश्यन्तीति सर्वदर्शिनस्तेभ्यः। शिव-निरुपद्रवं, अचलं-स्वभावप्रयोगचलनाभावात् । अरुजं-आधिव्याध्यभावात् । अनंतम्-अनन्तार्थविषयज्ञानरूपत्वात् अनन्तसुखादिरूपत्वादा। अक्षयम्-अनाशम् साद्यनन्तत्वात् । अव्याबाधम् पीडाकारीकर्माभावात् । अपुनरावृत्तिः-पुनर्भवेऽनवतारात् । सिद्धिः-लोकान्तक्षेत्ररूपा स चासो गतिश्च सैव नामधेयं यस्य इदृशं स्थान व्यवहारतः सिद्धक्षेत्रम् , निश्चयतो यथावस्थितं खरूपं सम्प्राप्तेभ्यः शेषकर्मक्षयेण । नमो जिनेभ्यः,
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy