SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ नमुत्थुणमित्यादितः....समुप्पज्जित्थेत्यन्तम् । तत्र नमोऽस्त्विति सर्वत्र सम्बध्यते [ सर्वत्र चतुर्थीस्थाने Nषष्ठी प्राकृतत्वात् ] । अतिशयपूजाद्यर्हत्वादर्हन्तः। कर्मारीन् मन्तीति अरिहन्तारः। कर्मबीजाभावे भवेऽप्ररो हणादरुहन्तस्तेभ्यः 'अत्र बहुवचनमद्वैतोच्छेदेनाऽर्हद्बहुत्वख्यापनाथै, नमस्कर्तुः फलाधिक्यज्ञापनार्थ वा। नामादीन जिनान सामान्यतो नत्वा विशेषतो भावजिनान् नमस्कर्तुमाह-भगवद्भ्यः,"भगोऽर्क-ज्ञान-माहात्म्य-यशो-वैराग्य-मुक्तिषु-रूप-वीर्य-प्रयत्ने-च्छा-श्री-धर्मेश्वर्य-योनिषु॥१॥” ___ इत्यर्कयोनिवर्जद्वादशार्थभगयुक्तेभ्यः । तत्र यशस्वी शाश्वतारिवैरोपशमनात् , वैराग्यवान्"यदा मरुन्ननरेन्द्रश्रीस्त्वया नाथोपभूज्यते यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते ॥१॥ इत्युक्तेः२ ४ वीर्यवानमितबलवत्त्वात्३ प्रयत्नः-तपः कर्मादावुत्साहः४ भवाजन्तुनामुद्धरणेच्छा५ श्रीरतिशयरूपाद ऐश्वर्यमिन्द्रादिसेव्यत्वात् ज्ञान८ माहात्म्य९ मुक्ति१० रूप११ धर्म१२ वत्त्वं च प्रतीतम् । आदिकरेभ्यः-श्रुतधर्मस्यार्थापेक्षया नित्यत्वेऽपि शब्दापेक्षया स्वस्वतीर्थेष्वादिकरणात् । तीर्थकरेभ्यः-तीर्थ सङ्घः-गणभृद्वा तत्स्थापनात् । स्वयं संबुद्धेभ्यः-परोपदेश विना स्वयं तत्त्वावबोधात् । पुरुषोत्तमेभ्यः-गाम्भीयादिबहुगुणयुक्तत्वात् । पुरुषसिंहेभ्यः-सिंह इव कर्मारिष्वतिक्रुरत्वादुपसर्गेभ्योनिर्भयत्वाद्वा । पुरुषवर पुण्डरीकेभ्यः-पुण्डरीकाणि-श्वेतपद्मानि तत्सदृशास्तेभ्यः, यतः कर्मपङ्केजाता भोगजलेन वर्द्धितास्त्यक्त्वोभयं जगल्लक्ष्मीनिवासाः सन्ति । पुरुषवरगन्धहस्तिभ्यः-ईति-मार्यादिक्षुद्रगजानां भगवद्विहारमरुद्गन्धादेव भङ्गात् । लोकोत्तमेभ्यः-लोकस्य-भव्यलोकस्योत्तमश्चतुत्रिंशदतिशयोपेतत्वात् । लोकनाथेभ्यः-लोकस्य
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy