________________
क.
२१
भव्यलोकस्य नाथा-योगक्षेनकारिणः तत्रालब्धसम्यक्त्वादिप्रापणाद्योगस्य लब्धस्य रक्षणात्क्षेमस्य च संपादकत्वात् । लोकहितेभ्यः - लोकस्यै केन्द्रियादिप्राणिगणस्य रक्षणात् हितास्तेभ्यः । लोकप्रदीपेभ्यः -लोकस्य - विश्वस्य मिथ्यात्वध्वान्तविध्वंसेन सर्ववस्तुप्रकाशकत्वात् प्रदीपा इव प्रदीपास्तेभ्यः । लोकपद्योत - करेभ्यः-लोकस्य-लोकरूपस्य प्रवचनप्रवर्त्तनेन प्रद्योतं-प्रकाशं कुर्वन्तीति लोकप्रयोतकरास्तेभ्यः । अभयदायेभ्यः- इहलोक-परलोक - आदन- अर्कैस्मात्-आजीविका - मरंग अँश्लोकरूपससभयहरणाद्भयं दयन्ते इत्यभयदयास्तेभ्यः । चक्षुर्दयेभ्यः - चक्षुरिव चक्षुः- श्रुतज्ञानं तद् दद्यन्ते इति चक्षुर्दयास्तेभ्यः । मार्गदयेभ्यःमार्ग - सम्यक्त्वादिकं मुक्तिपथं दयन्ते इति मार्गदयास्तेभ्यः । शरणदयेभ्यः - शरणं त्राणं बहुपद्रवोपद्रुतानाम् तत्त्वतो निर्वाणं दद्यन्ते इति शरणदयास्तेभ्यः । जीवदयेभ्यः - जीवनं जीवो भावप्राणधारणममरणं दयन्ते, जीवेषु वा दया येषाम् इति जीवदयास्तेभ्यः । कचित् बोहिदयाणमितिपाठस्तत्र जिनोक्तधर्मप्राप्तिस्तां दयन्ते इति । धर्मदयेभ्यः- धर्म - देश सर्वविरतिरूपं दयन्ते इति धर्मदयास्तेभ्यः । धर्मदेशकेभ्यः धर्म-पूर्वोक्तं देशयन्ति इति धर्मदेशकास्तेभ्यः । धर्मनायकेभ्यः - धर्मस्य - क्षायिकज्ञानादेर्वशीकारात् तत्फलपरिभोगाच्च नायकास्तेभ्यः । धर्मसारथिभ्यः - धर्मरथस्य सारथ्य इव रथिकाश्वतुल्यसंयमात्मप्रवचनानाम् प्रवर्तनरक्षणाभ्याम् । यथा सारथिस्तात् प्रवर्तयति रक्षति च धर्मसारथिकतायां सम्प्रदायस्त्वेवम् ॥
एकदा श्रीवीरो विहरन् राजगृहपुरोद्याने समवसृतः । तत्र च श्रेणिकधारिण्योर्मे धकुमाराख्यः पुत्रः प्रभोगिरा विरक्तोऽष्टौ प्रियास्त्यक्त्वा प्रवजितः । प्रभुगा च ग्रहणासेवनादि शिक्षार्थं स्थविराणामर्पितस्तत्र निर्गच्छ दागच्छदनेकमुनिपादद्ममार्जन रजा गुण्डिताङ्गस्तस्याम् राम्रो क्षणमपि निद्रामप्राप्नुवत्, "क मे
म.
२१