SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Lal इमंचणं इत्यादितः....एवं वयासीत्यन्तम् तत्र केवलः सम्पूर्णः स चासौ कल्पश्च कार्यकारणसमर्थः । यहा पूर्णता साधात् केवलकल्पः-केवलज्ञानतुल्यः। अवधिना आभोगयन्-पश्यन् । नन्दितः-समृद्धितां प्राप्तः। परमानन्दितोऽताव समृद्धितां गतः। धाराहतं यन्नीपस्य-कदम्बस्य सुरभि कुसुममिवचंचुमालइअत्ति पुलकितः । अतएव ऊप्तविअत्ति उश्वसितरोमकूपश्च यःस तथा । विकसितानि-वरकमलवदानन-नयनानि यस्य स तथा । प्रचलितानि-सम्भ्रमात्कम्पितानि वराणि ककृणानि, त्रुटिताः-याहूरक्षकाः । केयूराणि च बाहुमूलभूषणानि, मुकुटं च कुण्डले च यस्य हारविराजदक्षाः, [तदनु पदवयस्य कर्मधारयः] पालम्बोझुम्बनकं मुक्तामयं प्रलम्बमानं-घोलच्च-दोलायमानम् यद्भूषणं-आभरणम् तद्धरति यः सः। ससम्भ्रम| सादरं त्वरितम्-सौत्सुक्यम् चपलं-वेगवञ्च यथा स्यात्तथा प्रत्यवरोहति-अवतरति । वैडूर्येण मध्यवर्तिना वरिष्ठे-प्रधाने रिष्टाञ्जने रत्नविशेषौ ययोस्ते, तथा निपुणेन शिस्पिना 'उवित्ति' परिकर्मिते, अतएव । GI मिसिमिसिंत त्ति चिकिचिकायमाने मणिभिः चन्द्रकान्तादिभिः रत्नश्च-कर्केतनादिभिः मण्डिते ये ते | तथा ततः 'पदचतुष्कस्य कर्मधारयः' इदृशे पादुके अवमुश्चति। एकखण्डशाटकमयमुत्तरासहं । अनलिना मुकुलिता-मुकुलाकृती कृतावग्रहस्ता येन । अंचेह त्ति आकुश्चयति-उत्पाटयति साहटु'त्ति संहत्य-निवेश्य त्रिःकृत्वस्त्रीन् वारान् न्यस्यति । इषन्मनाग प्रत्युन्नमति। कडग कङ्कण बाहुरक्षाभ्यां स्तम्भिते भुजे साहरइत्ति उर्ध्वं नयति स्तम्भिकोपमे करोति । करतलाभ्याम् परिगृहीतः कृतस्तं आवर्तनं आवर्तः शिरस्यावती यस्य स तं । हस्ताङ्गुलोनामन्योन्यान्तरितत्वे अनलिस्तं ॥१५॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy