________________
| परिवारयुक्तानाम् , तिसृणाम् पर्षदाम्-बाह्यमध्यमाभ्यन्तराणाम् , ससानामनीकानाम्-सेनानाम् गन्धर्व-M | नाट्य-हये-गज-र.थ-भट-वृषभरूपाणाम् सप्तानामनीकाधिपतिनाम्-सैन्यस्वामिनामित्यर्थः, चतमृणाम् चतुरशीतीनामात्मरक्षकदेवसाहस्रीणाम्, चतुर्दिशम् भावादङ्गरक्षकाणाम् , [षत्रिंशत्सहस्राधिक लक्षत्रयं जातमिति] आहेवच्चमित्यादि आधिपत्यम्-अधिपतेः कर्म-रक्षा, एतच्च सामान्यत आरक्षकेणापि क्रियतेऽतः प्राह-पुरोवयं-सर्वषामग्रेसरत्वं, तच्च स्वामिनियुक्त जनेऽपि स्यादत आह-स्वामित्वं-नायकत्वं, तदपि पोषकत्वं विना मृगयुथाधिपस्य च अत आह-भर्तृत्वं-पोषकत्वम्, महत्तरत्वं-गुरुतरत्वम् , तदप्याज्ञाविकलस्यापि स्वदासदासीवर्ग प्रति वणिज इव स्यादत आह-आज्ञया-इश्वरः आज्ञेश्वरः सेनायाः पतिः सेनापतिः, (ततो 'विशेषणकर्मधारये) तस्य कर्म आज्ञेश्वर-सेनापत्यं-स्वसैन्यं प्रति अद्भूतमाज्ञा | प्राधान्यमित्यर्थः, कारयन् नियुक्तैस्सह पालयन् स्वयमेव, । महयाहयेत्यादि महता, 'रवेण इति योगः'
अहतम-अव्यवच्छिन्नं यन्नाटय, तत्र यद्गीतम् च यानि वादितानि-तन्त्रीतलतालत्रुटितानि, । तत्र तत्त्रीवीणा, तलतालाश्च-हस्तास्फोटरवाः, यदा तला-हस्ता, ताला:-कंसिका, त्रुटितानि-शेषतुर्याणि । यश्चघनमूदंग-मेघध्वनिः मर्दलो यश्चपटुपटहवादितमिति कर्मधारयगर्भो द्वन्द्वः ततस्तेषां यो रवस्तेन । यद्वा आहतेआख्यानकपतिबद्धे नाटयं च गीतं च नाटयगीते आहते च ते नाट्यगीते च आहतनाटयगीते तयोः वादितानि-तन्त्रीतलतालटितानि घनमृदङ्गपटुपटहवादित्राणि तेषां रवस्तेन । दिव्यान्-देवजनोचितान् भोगभोगान्-भोगभोगातिशयवभोगान 'क्लीबत्वं च प्राकृतत्वात्' विहरति-आस्ते ॥ १४ ॥