SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आणाईसरसेणावच्चं कारेमाणे पालेमाणे, महयाहयनट्टगीअवाइअतंतीतलतालतुडिअघणमुइंगपडपडहवाइअखेणं दिव्वाई भोगभोगाइं भुंजमाणे विहरइ ॥ १४ ॥ व्याख्याः-ते णं काले णमित्यादितो-विहरतीत्यन्तम, तत्र शक्रस्यासनविशेषस्याधिष्ठाता शकः, देवानां | मध्ये इन्दनात्परमैश्वर्ययुक्तत्वाद्देवेन्द्रः, देवेषु राजा कान्त्यादिगुणैरधिकं राजमानत्वात्, वज्रं पाणावस्येति | वज्रपाणिः, असुरादिपुराणां दारणात्पुरन्दरः, शतं क्रतुनां कार्तिकभवापेक्षयाऽभिग्रहविशेषाणाम् वा यस्यासौ शतक्रतुः,। कार्तिकश्रेष्ठिभवो यथा पृथ्वीभूषणाख्ये पूरे प्रजापालो नाम नृपः, श्रेष्ठी कार्तिकनामा महर्द्धिको राजमान्या, तेन श्राद्धप्रतिमानां शतं कृतं, ततः 'शतक्रतु'रिति ख्यातिः । एकदा गैरिकतापसो मासोपवासी तत्रागतः, एकं कार्तिकं | विना सर्वोऽपि लोकस्तदाढतो जातः । अथ ज्ञातकार्तिकवृन्तातः स सकोपो भोजनाय निमन्त्रितो राजे प्राह 'यदि श्रेष्ठी परिवेषयति तदा त्वद् गृहे आयामीति श्रुत्वाश्रेष्ठिगृहे गत्वा तं भुजे धृत्वासोऽवक्-'मद्गृहे - गैरिक भोजय, । श्रेष्ठी प्राह त्वदाज्ञाकारित्वात्करिष्ये । ततस्तेन भोज्यमानो गैरिकोऽपि धृष्टोऽसीत्यङ्गुलीचेष्टां चक्रे । दध्यौ च श्रेष्ठी यदि प्रागेव प्राब्रजिष्यं तदिदं नाभविष्यदिति विचिन्त्य नैगमाष्टसहस्रेण सम KA श्रेष्ठी श्रीसुव्रतस्वाम्यन्तिके प्रव्रज्याधीतद्वादशीको द्वादशाब्दैः सः सौधर्मेन्द्रोऽभूत्। गैरिकोऽपि स्वकर्मतस्तद्वाहनमैरावणाख्यं जातं । ततः कार्तिकोऽयमिति ज्ञात्वा पलायमानं तं धृत्वा शक्रोऽधिरूढवान् । स च
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy