________________
१६
पारग:
‘सरहस्साणं ति’ ऐदंपर्ययुक्तानां सारकोऽध्यापनेन प्रवर्तकः स्मारको वा विस्मृतस्य स्मारणात्, पारं प्राप्तः, वारको - अशुद्धपाठनिषेधकः, धारको ऽधीतान् धारयितुं क्षमः, षडङ्गवित् - शिक्षादिविचारकःज्ञानार्थे तु पौनरुक्त्यं स्यात्, षष्टिरर्थास्तन्त्रिता अत्रेति षष्टितन्त्रं - कापीलीयशास्त्रं तत्र विशारदः । संखाणेत्ति ' सङ्कलितव्यवकलितस्कन्धे सुपरिनिष्ठित इति योगः । छायादिना नगगृहादिमानं यथा
6
66
'अर्द्ध तोये कर्दमे द्वादशांशः, षष्ठो भागो वालुकायां निमग्नः
साद्ध हस्तो दृश्यते यस्य तस्य, स्तम्भस्याशु ब्रूहि मानं विचिन्त्य ” ॥१॥ स्तम्भो हस्ता षट् । सिकखाणेत्ति शिक्षामणति प्रतिपादयतीति शिक्षाणं आचारशास्त्रं तत्र । सिक्खाकप्पेत्ति शिक्षा च- अक्षरस्वरूपनिरूपकं शास्त्रं, कल्पश्च यज्ञादिसमाचारवाचकं चेति शिक्षाकल्पं तत्र । व्याकरणे - शब्द लक्षणशास्त्रे, छन्दसि - पद्यलक्षणनिरुपके, निरुक्ते - पदभञ्जने, ज्यातिषां अयने-ज्ञाने - ज्योति:शास्त्रे इत्यर्थः । अन्येषु बहुषु ब्राह्मणेषु वेदव्याख्यारूपेषु ब्राह्मणसबन्धिषु ब्राह्मणहितेषु, परिव्राजकदर्शनप्रसिद्धेषु नयेषु - आचारेषु न्यायशास्त्रेषु वा इति । सुपरिनिष्णातश्चापि भविष्यति भाव्यं ॥ १० ॥
तं उरालाणं तुमे देवाणुप्पिए सुमिणा दिट्ठा, जाव आरुग्ग-तुट्ठि- दीहाउअ - मंगल कल्लाणकारगाणं तुमे देवाणुप्पिए सुमिणा दिट्ठ त्ति कट्टु भुज्जो भुज्जो अणुवूहइ ॥ ११ ॥
क
.१६