________________
चक्षुःस्नेहेन सौभाग्य, दन्तस्नेहेन भोजनं । वपुःस्नेहेन सौख्यं स्यात् पादस्नेहेन वाहनं ॥२०॥ वामभागे तु नारीणा, दक्षिणे पुरुषस्य च । विलोक्यं लक्षणं विज्ञैः पुंस्सत्वायुः पुरस्सरं ॥२१॥ | पुष्टं यदेव देहे स्यालक्षणं चाप्यलक्षणं। इतरद् बाध्यते तेन, बलवत् फलदं भवेत् ॥ २२ ॥ | व्यञ्जनानि-मषोतिलकादीनि तेषां या गुणः-प्रशस्तता तेनोपयुक्तः। उप-अप-इत-इति शब्दत्रयस्थाने शकन्ध्वादिदर्शनादुपपेत इति भवति, । यद्वा सहजं लक्षणं । पश्चाद् भवं व्यञ्जनं । गुणाः सौभाग्यादयः। माणुम्माणेत्यादि जलभूतकुण्डे यस्मिन् नरे प्रविष्टे जलस्य द्रोणो निस्सरति स मानोपेतः, यस्तुलारू| ढोऽर्द्धभारं तुलति स उन्मानोपेतः। भारमानं त्वैवंःषट् सर्पपैर्यवस्त्वेको, गुञ्जका च यवैस्त्रिभिः । गुञ्जात्रयेण वल्लः स्याद् गद्याणे तेच षोडश ॥१॥ पले च दशगद्याणास्तेषां सार्द्धशतं मणे, मणैर्दशभिरेकाच धटिका कथिता बुधैः ॥२॥
___ धटीभिर्दशभिस्ताभि-रेको भारः प्रकीर्तितः । इत्युन्मानं ___ स्वाङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्यः प्रमाणप्राप्तः, मुखात् द्वादशाङ्गुलप्रमाणादेहमानं नवगुणमुत्तम-1
पुंसाम् । यदुक्तंः2 अष्टशतं षण्णवति परिमाणं चतुरशितिरिति पुसां। उत्तम-सम-हीनानांखदेहसङ्ख्या स्वमानेन॥१॥ १५