________________
माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः ।
दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टे भ्रान्तिर्वेपथुश्चारतिश्चः ॥ १ ॥
इति भावाः स्युः । तथापि तीर्थकृत्सुराः पूण्योत्कर्षात् ज्ञानकान्त्यादिप्रकर्षभाजो भवन्ति इति । च्यवनभविष्यकालं जानाति, च्यवमाना न जानाति, च्यवनस्यैक सामायिकत्वेन तत् ज्ञानागम्यत्वात्, जघन्यतोऽपि छाद्मस्थिकस्य ज्ञानोपयोगस्यान्तर्मुहूर्त्तिकत्वात् च्यवनकालं भगवान् न जानाति इति । च्युतस्तु जानाति च्युतोऽस्मीति पूर्वभवायात ज्ञानत्रिकसद्भावादिति । जं स्यणि ति यस्यां रजन्यां, सुतजागर ति सुजागरा - नातिसुता नातिजाग्रती, अत एव ओहीरमाणी ओहीरमाणी- पुनः पुनः इषन्निन्द्रां गच्छन्ती, इमे इत्यादि इमान् महास्वप्नानिति सम्बन्धः । एतदेव वर्णितमेव रूपं स्वरूपं न न्युनमधिकं वा कविकृतं येषां ते तथा तान् उदारान, प्रशस्तान, कल्याणान् -कल्याणानां शुभसमृद्धिविशेषाणाम् हेतुत्वात्, या कल्यं - नीरोगतामणंति - गमयन्तीति तान, शिवानुपद्रवोपशमकत्वात्, धन्यान्-धनावहत्वात्, मङ्गल्यान्- मङ्गले दुरितोपशमे साधुत्वात्, सश्रीकान्-सशोभान् दृष्ट्वा प्रतिबुद्धा - जागरिता । तं जहा-गय-सह-सह-अभिसेय-दाम-ससि-दिणयरं झयं-कुंभं । पउमसर-सागर-विमाण-भवण-रयणुच्चय-सिहिं च ॥१॥४॥
तं जहेत्यादिःत.. . सिंहिं च्येत्यनेन सम्बन्धः, तत्राऽभिषेकः श्रियाः सत्कः, पद्मोपलक्षितं सरः