SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ क. ९ ते णं काले णं ते णं समए णं समणे भगवं महावीरे पंच हत्थुत्तरे होत्था ॥ १ ॥ व्याख्याः- ते णं काले णंमित्यादितः परिनिबुडे भयवं इत्यन्तं । तत्र यत्तदोर्नित्याभिसम्बन्धात् यत्र स्वामी दशमदेवलोकगत पुष्पोत्तरप्रवरविमानाद्देवानन्दा कुक्षाववातरदिति, 'यत् शब्दघटितमन्वयमध्याहृत्य' ते णं ति ते-तस्मिन, णमिति - वाक्यालंकारे, काले- वर्तमानावसर्पिण्याश्चतुर्थारके लक्षणे, णंकारः पूर्ववत्, ते णं समए णं ति-तस्मिन् समये, समयः - परमनिकृष्टः कालविशेषः, 'यद्वार्षत्वात् सप्तम्यर्थे तृतीया, यहाहेतौ तृतीया', तता यौ कालसमयौ श्री ऋषभादिजिनैः श्रीवीरस्य षण्णां च्यवनादीनां वस्तुनां हेतुतया कथितौ न च च्यवनादीनां वस्तुत्वेन व्याख्यानमनागमिकं, चूर्ण्यादिषु तथैव व्याख्यानात्, यतः - " जो भगवया उसभसामिणा सेसतित्थगरेहिं भगवओ वद्धमाणसामिणो चवणाइणं छण्हं वत्थूणं कालो णातो दिट्ठो वागरीओ अ ॥ काले णं णं समए णं ति इति पर्युषणाकल्पचूर्णै तथा च तेन हेतुभूतेन कालेन समयेन च । समणे भ्रमुच् खेदतपसोरिति श्राम्यति तपस्यति इति श्रमणः - तपस्वीत्यर्थः, भगवान्समग्रैश्वर्ययुक्तः, महावीरः - कर्मशत्रुजयादन्वर्थनामान्तिमजिनः । पंचहत्युत्तरेत्ति हस्तः उत्तरो यासां ताः हस्तोत्तराः-उत्तराफाल्गुन्यः । हस्तादुत्तरस्यां दिशि वर्तमानत्वाद्वा ताः पञ्चसु स्थानेषु यस्य स हस्तोत्तर इति वीरविशेषणं । निर्वाणस्य स्वातौ जातत्वात् । होत्यत्ति-अभवत्, षण्णां वस्तुनाम् मध्ये पञ्च
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy