________________
"E 'अयं बालः प्राग् भवे बाल्ये मृतमातृको, विमातृकृतापमानेन नित्यं दूनः स्वमित्रश्राद्धवचसा सर्वदुःखापहारि यथाशक्ति तपः कुर्वन्नन्यदासन्ने पर्युषणादिनेऽष्टमं तपः करिष्यामि इति ध्यायन् यावता तृणगृहे सुष्वाप तावतासन्नप्रदीपने लग्ने विमात्रा तन्मारणाय तद्गृहे अग्नौ क्षिप्ते तपोध्यानैकचित्तस्तद्व्यथामविज्ञाय मृतोऽपुत्रस्य श्रीकांतस्य सुतत्वेन जज्ञे । ततः पूर्वभवसंस्कारात् पर्युषणादीनं श्रुत्वा जातजातिस्मृतिः कृताष्टमः स्तन्यमप्यपिवन् मूर्छया 'मृतो' इति ज्ञात्वा स्वजनै भूक्षिप्तो मयाऽमृतेन जीवितः " इति । ततो धरणेन्द्रो बालाय हारं दत्वा तिरोदधे इति कथया राजापि सविस्मयो यत्नेनायं शिशुः परिपाल्यः इत्युत्क्वा जनन्यै अर्पयत् । ततः स्वजनै नगकेतुः इति दत्तनामा स बाल्येप्याजन्म चतुः पर्व्या चतुर्थ, चतुर्मासके षष्ठं पर्युषणायां चाष्टमं कुर्वन्, सामायिक - पौषध-पूजादिनिष्ठो यौवनेऽपि जितेन्द्रियो जज्ञे
अन्यदा राज्ञा तेन केनापि चौरेण व्यन्तराभूतेन अदृश्येन पाणिनाहत्य भूवि पातितो राजा चक्रन्द लोकाश्चसर्वेऽपि । नगरोपरि महतीं शिलां विकुर्व्य दुर्गिरा भापयामास । ततो नागकेतुस्तु चतुर्विधश्रीसङ्घ जिनप्रासादप्रतिमारक्षायै उच्चैः प्रासादारूढस्तपःशक्त था तां पतन्तीम् करे दधौ । तत्तपसा निस्तेजा व्यन्तरः शिलां संहृत्य तं नत्वा तद्वचसा नृपं पटुकृत्य स्वस्थानमगात् । ततो नृपादिमान्यो नागकेतुरन्यदा जिनपूजां कुर्वन् पुष्पस्थसर्पेण दष्टो । ध्यानैकाय्यादुत्पन्नकेवलज्ञानः शासनसूरीदत्तवेषश्चिरं भव्यान् प्रबोधयत् । इति अष्टमतपसि नागकेतुकथा । कविघटनात्वेवं
'किं रत्नत्रयसेवनं किमथवा, शल्यत्रयोन्मूलनं । किं वा चित्तवचोवपुः कृतमल-प्रक्षालनं सर्वतः ।