SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ IN वक्त्रे जिह्वा सहस्रं स्यात्, ज्ञानं मे पंचमं यदि । कल्पश्रवणमहात्म्यं वक्तुम् नेशस्तथाप्यहं॥८॥ ___ इति कल्पसूत्रश्रवणफलमव्यभिचारि महापुरुषप्रणीतत्वाद्यतः चतुर्दशपूर्ववियुगप्रधानश्रीभद्रबाहुको स्वामिना प्रत्याख्यानप्रवादाख्यनवमपूर्वादयमुद्धतस्तानि चतुर्दशपूर्वाण्येकादिद्विगुणवृद्धया षोडशसहस्रत्रिं शतत्र्यशितिहस्तिप्रमाणमषीपुञ्जलेख्यानि ॥ स्थापनाचित्रं यथा प्रमाण हस्ति १ २ ४ ८ १६ ३२ ६४ १२८ २५६ ५१२ १०२४ २०४८ ४०९६ ८१९२ १६३८३/ प्राप्ते पर्युषणापर्वणि कल्पसूत्रश्रवणवञ्चैत्यपरिपाटी१ सर्वसाधुवन्दनंर सांवत्सरिकप्रतिक्रमण३ मिथः । साधर्मिकक्षामणकं४ अष्टमं तपश्चेति५ पञ्चकृत्यानि कर्तव्यानि, तत्राष्टमं तपो नागकेतुवबिधेयं तथाहि:____ चन्द्रकान्तापूर्याम् विजयसेनो राजा, श्रीकान्तः श्रेष्ठी, श्रीसखीभार्या, तयोः पुत्रः 'पर्युषणापर्वण्यष्टमं | करिष्यामः' इति कुटुम्बभाषितं श्रुत्वा जातजातिस्मृतिलिः कृताष्टमतपाः पित्रादिभिबहूपचारकरणेऽपि स्तन्यमपि नापिन् ततो मूर्छया निश्चेष्टे बाले दुःखात्पितरि हृदयस्फोटने मृते तत्स्वजना बालं भुवि चिक्षिपुः। ततो धरणेन्द्रोऽवधिना विज्ञाय तं भूस्थमेवामृतेनोज्जीच्यापुत्रत्वेन श्रेष्टिलक्ष्मी गृहणाणान् राजपुरुषान् पुरुषरूपेण वारयन राज्ञा पृष्टः श्रेष्टिपुत्रं जीवन्तम् भुवः आकृष्य दर्शयित्वा तत्माग् भवादिसम्बन्धमाहः
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy