SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ - व्याख्याः-यत्र महती विहारभूमिर्भिक्षानिमित्तं परिभ्रमणभूमिः१, महती विचारभूमिः पुरीषोत्सर्गभूमिः२, सुलभा भिक्षावृत्तिः३, वसतिश्च सुलभा४, तजघन्यं वर्षायोग्यं क्षेत्रमिति। शेषं तु पञ्चादिद्वादशगुणान्वितं मध्यममिति, एवंविधगुणाभावे दोषाभावः सन्नपि मृगतृष्णावदकिश्चित्करः, तथा गुणा अपि | दोषजुषो विषमिश्रितपायसवदकिञ्चित्कराः इत्यदोषान् गुणानालोच्य साधुभिः पर्युषितव्यम् । ___ एवमुक्तस्वरूपदशकल्पान्तर्गतपर्युषणाकल्पोऽपि विशेषतस्तृतीयौषधतुल्यः, तद्यथा-केनापि राज्ञा | स्वसुतस्यानागतचिकित्सायां कार्यमाणायां त्रयो वैद्याः समाहुताः, तेष्वाद्यः तथा प्राह-मदौषधं सन्तम् व्याधिमुपशमयति, असति च नव्यं करोति, राज्ञोक्तं सुप्तसिंहोत्थापनकल्पेनानेनालं। द्वितीयः प्राह-'संतमपनयति असति च नोपद्रवयति' राज्ञोचे भस्मनिहुतकल्पेनानेन सृतं। . तृतीयः स्माह-संतमपहरत्यसति च सौन्दर्यवीर्यसौभाग्यतुष्टिपुष्टयाद्यनेकगुणोत्पादकं ततो राज्ञा तृतीयमौषधं स्वसुतं प्रति कारितं संसम्मानितः-तद्वदेषोऽपि कल्पः सन्तं दोषं शोषयति दोषाऽभावे तु चारित्रगुणान् पोषयति। यद्यपि विहारे महानिर्जरा तथापि मोदन्या बहुप्राणाकुलितत्वनैकत्रावस्थानेन वर्षास्वयं कल्प आराध्यः। यतः कृष्णदेवोऽपि बहुमणां मेदिनीमधिगम्य वर्षासु स्वास्थानसभायां नागतस्तस्मात्तत्रपूर्वोक्तनिर्दोषगुणान्वितक्षेत्रे चातुर्मासकमासीना मुनयो मङ्गलाथै पञ्चाभर्दिनेः कल्पसूत्रं वाचयन्ति अन्येऽपि शृण्वन्ति।
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy