________________
अथ च जडत्वादिदोषवशोत्पन्नातिचारबाहुल्याद् दुःषमासाधुषु साधुत्वं न मन्यन्ते तान् प्रत्याहपूर्वसाध्यपेक्षया वक्रजडत्वाद् हीनहीनक्रियावत्वेऽपि नृप-गोप- वृक्ष-वृष-स्वर्ण-घृत-दुग्ध-दधि- पद्मायागमोक्तदृष्टान्तेन दुःषमासाधुषु साधुत्वमेव केचन न मन्यन्ते तेषां महत्प्रायश्चितं । यतः
जो भाइ नत्थि धम्मो, न य सामाइयं न चैव य वयाई । सो समणसंघबज्झो, कायव्वो समणसंघेण ॥ १ ॥
अथ प्रकृतं । यस्तु सप्ततिदिनमानः पर्युषणाकल्पो नैयत्येनोक्तः, स चाशिवादिकारणाभावे सतीति बोध्यं, अशिवादिदोषसद्भावे तु अर्वागपि निर्गमने जिनाशेव । यतः
• असिवे ओमोअरिए रायठ्ठभए अ गेलन्ने । एएहिं कारणेहिं अप्पत्ते होइ निग्गमणं ॥ १ ॥ अभूमी संथार असंसत्तदुलह भिख्खे । एएहिं कारणेहिं अप्पत्ते होइ निग्गमणं ॥ २॥ राया सप्पे कुंथू अगणिगिलाणे अ थंडिलस्सऽ सह। एएहिं कारणेहिं अप्पत्ते होइ निग्गमणं ॥ ३॥ वर्षानतिक्रमे कालातिक्रमणेऽप्यविहारे जिनाशैव