________________
तस्थौ को हेतुरिति गुरुणोक्ते जीवदया ध्यातेत्याह, कथमिति पुनः पृष्ठे “ गार्हस्थ्येऽस्माभिः क्षेत्रवृक्षनिषुदनादि पुरस्सरमुप्तानि धान्यानि भूयस्यभूवन् साम्प्रतं च मत्पुत्रा निश्चिन्ता अकुशलाश्च नैतत्करिष्यन्ति, तथा च ते वराकाः क्षुत्पाडिता मरिष्यन्तीति” ऋजुत्वात् कथिते गुरुभिरुक्तं 'जीवघातादि विना कृषिर्नोत्पद्यते इति दुर्ध्यातमित्युक्ते पुनः मिथ्यादुष्कृतं ददौ ॥ इति ककणसाधुदृष्टान्तः ॥
वीरतीर्थे तु वक्रजडत्वाद् व्रतादिपालनं तद्विशुद्धिश्वेत्युभयमपि दुःसाध्यं, अत्रापि दृष्टान्तइयं तत्रायो यथा
केचिचान्त्यजिनसाधवस्तथैव पृष्टा ऊचुः, 'नटं नृत्यन्तम् वीक्षमाणाः स्थिताः, ततो गुरुणा निषिद्धाः, पुनरन्यदा नहीं नृत्यन्तम् वीक्षमाणाः स्थिताः, पृष्टाञ्च वक्रत्वेनोत्तरान्तराणि ददुः, निर्बन्धे च नटीमुक्तवन्तः, उपालब्धाश्च सन्तो जडत्वादुचुर्यथा-नट एव न द्रष्टव्य इत्यस्माभिर्ज्ञातं । द्वितीयो यथा
कश्चित श्रेष्ठपुत्रो दुर्विनीतः पित्रादीनां प्रत्युत्तरं न देयमिति पित्रा शिक्षितः, कदाचित्सर्वेषु वहिर्गतेषु गृहद्वारं दत्वा स्थितो, द्वारागतेन श्रेष्ठिना द्वारोद्घाटनार्थ बहुशः शब्दकरणेप्यवदन् भित्तेरुपरि प्रविश्य पित्रा खट्वास्थो हसन् उपालब्धः प्राह- युष्माभिरेव शिक्षितोऽहं 'यत् प्रत्युत्तरं ना देयमिति ' ॥ श्रेष्ठिपुत्रदृष्टान्तः॥
अजितादितीर्थेषु ऋजुप्रज्ञत्वादुभयमपि सुकरं । दृष्टान्तस्तु यथा
केन्चित्साधवस्तथैव पृष्टाः, ऋजुत्वादूचुर्यथा-नटं वीक्षमाणाः स्थिताः, गुरुणा निषिद्धाः पुनरन्यदा नहीं दृष्ट्रा प्रज्ञत्वातैर्ज्ञातं नदवन्नटयपि नेक्षितव्या ।