SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ व्याख्या एवं चेत्यादितो... .निअतए इत्यन्तम्, तत्र एवं च यत्र न शक्नुयात् गत्वा प्रत्यागन्तुं तत्र न गच्छेत् । यत्र च जङ्घार्षं यावदुदकं स दकसङ्घः नाभि याबल्लेपा तत्परतो लेपोपरि, तंत्र ऋतुबद्धे काले भिक्षाचर्यायां यत्र त्रयो दकसङ्घहाः वर्षासु च सप्त स्युस्तत्र क्षेत्रं नोपहन्यते चतुरादिभिरष्टादिभिश्च तैरुपहन्यते, ते च गतागतेन द्विगुणाः स्युः, पचैोऽपि हन्ति, पुनर्लेपोपरि तु किं वाच्यं, यदि चतुरो मासान् एकद्वित्र्यादिदिनान् वा उपोषितः स्थातुमशक्तः तदा जघन्यताऽपि पूर्वक्रियमाणनमस्कारसहितादेः पौरुष्यादितपोवृद्धिं कुर्यादिति ॥ १३ ॥ वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वुत्तपुव्वं भवs, दावे भंते ! एवं से कप्पइ दावित्तए नो से कप्प पडगाहिए ॥ १४ ॥ व्याख्या - वासावासमित्यादितः.... पडिगाहित्तए इत्यन्तम्, तत्र अत्थेगइआणं त्ति अस्स्येतद्यदेकेषां साधूनां पुरत एवमुक्तपूर्व भवति गुरुभिरिति गम्यं, हे भदन्त ! - कल्याणिन् ! साधो ! दावे इतिग्लानाय दद्याः अन्नाद्यानीयेति गम्यम्, एवमुक्ते मे तस्या साधोः ग्लानाय दातुं कल्पते न स्वयं प्रतिगृहीतुं गुरुणाऽननुज्ञातत्वात् ॥ १४ ॥ वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वुत्तपुव्वं भवइ, पडिगाहेहि भंते ! एवं से कप्पइ
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy