________________
भावस्थापना-क्रोधादीनां विवेकः इर्याभाषा समित्यादिषु चापयोगः ॥७॥८॥ वासावासं पज्जोसवियाणं कप्पइ निगंथाण वा निग्गंथीण वा सवओ समंता सकोसं जोअणं
ओग्गहं ओगिण्हिता णं चिट्ठिउ अहालंदमवि ओग्गहे ॥९॥ __ व्याख्या-वासवासमित्यादितः......अहालंदमवि ओग्गहे त्ति इत्यन्तम्, तत्र वर्षावासं पर्युषितानांस्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां वा सर्वतः-चतमूषु दिक्षु विदिक्षु च सक्रोशं योजनमवग्रहमवगृह्य अथालंदमपीति अथेत्ययं निपातः, लन्दमिति कालस्याख्या,ततो लन्दमपि स्तोककालमप्यवग्रहे स्थातुं कल्पते, न बहिर्लन्दकालमपि स्थातुं कल्पते, तत्र यावत्कालेनोदकाः करः शुष्यति तावान् कालो जघन्य लन्द, उत्कृष्टं पश्चाहारावास्तयोरन्तरे मध्यं, यथा-रेफप्रकृतिरप्यरेफप्रकृतिरपीति, एवं लन्दमप्यवग्रहे स्थातुं कल्पते अलन्दमपि यावत् षण्मासानेकत्रावग्रहे स्थातुं कल्पते, ऊर्ध्वाधोमध्यग्रामान् विना चतमषु दिक्ष गजेन्द्रपदादिगिरेमखलाग्रामस्थितानांतु षट्सु दिक्षु उपाश्रयात्सार्द्धकोशद्वयं गमागमेन पञ्चक्रोशावग्रहः । यच्च विदिक्षु इत्युक्तं तद् व्यावहारिकविदिगपेक्षया, यतो विदिक्षु, चैकप्रदेशात्मकत्वाद् गमनाद्यसम्भवः, | अटवीजलादि व्याघाते तु त्रिदिक्को द्विदिक्क एकदिको वाऽवग्रहो भाव्यः ॥९॥
वासावासं पज्जोसवियाणं कप्पइ निग्गंथाणा वा निग्गंथीण वा सव्वओसमंता सकोसं जोअणं भिक्खायरियाए गंतु पडिनियत्तए ॥ १० ॥