________________
कल०
प्रदीपिका
इत्थय पणगं पणगं, काराणि जा सवीसइ मासो । सुद्धदसमीठिआणं आसाढीपुण्णिमो सरणं ॥१॥ ॥४॥ इति श्रीपर्युषणाकल्पनियुक्त्यादिवाक्यादाषाढशुद्धदशम्या आरभ्य पञ्चसु पञ्चसु दिनेषु गतेषु ।
पर्युषणा कृता युज्यते । तथाविधाने च पर्वणोऽनयत्यात् “ तत्थणं बहवे भवणवइ-वाणमंतर-जोइसियवेमाणिआ देवा तिहिं चउमासिएहिं पज्जोवसवणाएहिं अट्ठाहियाओ महामहिमं करिति" त्ति श्रीजीवाऽभिगमोक्तमष्टाह्निकां व कुर्युः ? ततो भाद्रसितपञ्चम्या अर्वाग् आषाढपूर्णिमाया आरभ्य " ये ये पर्युषणाप्रकारास्ते सर्वेऽपि श्रीपयुषणाकल्पकर्षणपूर्वकवर्षासमाचारीस्थापनरूपा एव, न तु सांवत्सरिकप्रतिक्रमणादि विशिष्टाः । नन्वते पर्युषणाप्रकाराः साम्प्रतं कथं न क्रियन्ते ? उच्यते व्यच्छिन्नत्वात् तथाऽभिवर्द्धितवर्षे विंशत्यादिदिनैः क्रियमाणगृहिज्ञातावस्थानरुपपर्युषणाप्रकारस्याऽपि व्यवच्छिन्नत्वात् । सम्प्रति तदपि कर्तुमयुक्तं प्रतिक्रमणादि कृत्यानि तु दुरापास्तानीत्यत्र बहुवक्तव्यं ग्रन्थगौरवभयान्नाऽत्र लिख्यते। अत एव कालावग्रहो जघन्यतः सप्ततिऽदीनमानः उत्कर्षतो वर्षायोग्यक्षेत्राऽन्ताराभावे आषाढमासकल्पेन
सह पाश्चात्यवृष्टिसद्भावान्मार्गशीर्षेणाऽपि सह पाण्मासिक इति । तत्र द्रव्य१ क्षेत्रर काल३ भावस्थापना का चैवं । द्रव्यस्थापना-तृण-डगल-छार-मल्लगादि परिभोगः सचित्तादीनां परिहारः। तत्र च सचित्तद्रव्यं
शैक्षो न प्रवाज्यते अतिश्रद्धौ नृपाऽमात्यो विना । अचित्तद्रव्यं वस्त्रादि नगृह्यते, मिश्रद्रव्यं सोपाधिक: शैक्षः एवमाहारविकृतिसंस्तारकादिद्रव्येषु परिभोगपरिहारौ योज्यौ ॥१॥ क्षेत्रस्थापना-सक्रोशं योजन कारणे वा ग्लानवैद्योषधादौ चत्वारि पश्च योजनानि ॥२॥ कालस्थापना-चत्वारो मासास्तत्र कल्पन्ते ॥३॥
॥४॥