________________
कल्प प्रदिपीका
॥ १४४ ॥
अज्जभद्दे थेरे अंतेवासी कासवगुत्ते ५, थेरस्स णं अज्जभद्दस्स कासवगुत्तस्स अज्जनक्खते थे रे अंतेवासी कासवगुत्ते ६, थेरस्स णं अज्जनक्खत्तस्स कासवगुत्तस्स अज्जरक्खे थेरे अंतेवासी व्याख्या-अज्जरक्खेति—दशपुरे नगरे पुरोहितः सोमदेवस्तद्भार्या सोमवा, तस्याः सूनुरार्यरक्षितः, विदेशे चतुर्दशविद्या अधीत्याऽऽगतो करिस्कन्धाऽऽरूढो राजादिकृतसन्मानो मातुः प्रणामक्षणे विशेषहर्षमदृष्ट्वा तद्धेतुं प्रपच्छ । तया परमाहत्योचे 'किंमनेन नरकहेतुनाऽधीतेन' यदिमां मन्यसे तदा दृष्टिवादमधीष्व । ततस्तं विभणिषुर्दष्टीनां दर्शनानां वादो वादो- विचार इति नामाप्यस्य शोभनमिति निशि ध्यात्वा प्रातरम्बां पृष्ट्वा इक्षुवाटकस्थस्व मातुलतोसलिपुत्राचार्य समीपे गच्छन् स्वमिलनार्थमागच्छन् मित्रह सार्द्धनवेक्षुयष्टीः सार्द्धनवपूर्वाध्ययन सूचिका दृष्ट्वा शकुनं मत्वा स्वमातुरर्पणायाऽऽदिश्योपाश्रयद्वारं प्राप्तो, ढदृरश्राद्धकृतविधिना स गुरून् मुनीन् नत्वोपविष्टः । श्राद्धवदनाद् गुरुभिरभिनवश्राद्धं इत्युक्तः साधुभिरुपलक्षितः स्वस्वरूपं प्रोचे । गुरुभिर्योग्यं ज्ञात्वा स्वजनाद्युत्प्रवाजन भीत्याऽन्यत्र गत्वा दीक्षितः, स्वपार्श्वस्थं श्रुतमध्यापितं । ततः पूर्वाऽध्ययनार्थ श्रीवज्रपार्श्वे गच्छन्नुज्जयिन्यां श्रीभद्रगुप्ताचार्यमनशनिनं निरयामयत्
यो हि सोपक्रमायुष्को, वज्रेण सह यामिनीं । एकामपि वसेत्सोऽनु - म्रियतेऽत्र न संशयः ॥ १ ॥
इति विचिन्त्य स्वया भिन्नाऽऽलये स्थित्वा अध्येयम् इत्युक्तः, सोऽन्याऽऽलये उपर्धि मुक्त्वा श्रीवज्रमवन्दत । अचाऽस्मत्पायस पतद्ग्रहः केनाप्यागन्तुकेन पीतः किञ्चिचास्थादिति निशि दृष्टस्वप्नानुसारेण तं किच
स्थविरावली
॥ १४४ ॥