________________
न्यूनदशपूर्वाध्येतारं मत्वा स्वरूपं च पृष्ट्वा पृथगालयस्थमध्यापयत् । दशमपूर्वयमकेषु पठयमानेषु पितृभिः सन्देशकैराकरणेप्यगमने तल्लघुभ्राता फल्गुरक्षितः प्रेषि, तेन प्रबोध्य सोऽपि दीक्षितः, ततः स्वजनान् प्रबोधयितुमुत्सुकोऽध्ययनपराजितश्चेदं पूर्वमद्यापि कियदवशिष्यते इति गुरून प्रपच्छ, विन्दुमात्रमधी तमन्धितुल्यं चाऽवशिष्यते तैरित्युक्ते भग्नोत्साहोऽपि गुरुगिरा कियध्यैष्ट, ततो गुरुभिरुपयोगास्वस्मिन् शेषश्रुताच्छेदं ज्ञात्वाऽनुज्ञातः सन् सफल्गुरक्षितो दशपुरं प्राप। तत्र राजादिकृतप्रवेशोत्सवो मातृभगिन्यादिस्वजनान् प्रात्राजयत, पिता तु पुत्रादिस्नेहेन दीक्षितोऽपि स्नुषादिहिया धौतिक-यज्ञोपवीत-छत्रिको-पानह-कमण्डलुनि न मुमोचत् । ततो गुरुशिक्षया बालैः सर्वसाधुवन्द भवन्तं छत्रिकावन्तं न वदामहे इत्युक्ते छत्रिकां मुमोच, क्रमेण तथैव कुण्डिकां यज्ञोपवीतमुपानहौ च । अन्यदा अनशनिनि साधौ मृते गुरुशिक्षया साधुषु वैयावृत्त्यकृते मिथः कलहायमानेषु किमत्र महती निर्जरेति गुरुं प्रपच्छ । गुरुभिरोमित्युक्तेऽहं वहामीत्यूचेऽत्रोपसर्गान् सोढुं शक्नुथास्तदानीं वहत अन्यथाऽस्माकमरिष्टमिति गुरूक्ते स तमुक्षिप्य व्रजन् गुरुशिक्षया बालैध/तिकमाकृष्य चोलपट्टः परिधापितः। पश्चास्थितस्नुषादिदर्शनालजितोऽप्येष उपसर्गः सोढव्य इति तस्कृत्यं कृत्वा । पश्चादागात् ततः किमेतद् आनय धौतिकमिति गुरूक्ते किमथ धौतिकेन यत् द्रष्टव्यं तत्तदृष्टमिति चोलपट्ट एवाऽस्तु । तथा हिया भिक्षामहिण्डमाने तस्मिन् गुरवः साधून शिक्षयित्वा गुरुष्वन्यत्र विहृतेषु साधवः स्वं स्वं विहृत्य भुक्ताः स तु क्षुधित एवाऽस्थात, द्वितीय दिने आगतगुरुभिः कृत्रिमकोपकरणे तेषु किमेष स्वयं न यातीतिप्रतिवदत्सु गुरुभिर्विहत्तुं गच्छति स एवाऽगात्, क्वाऽपि इभ्यगहेऽज्ञानादपरद्वारेण व्रजेस्तेन