________________
कल्प
दीपिका ॥१४३॥
तं कथमपि विप्रार्य गिरिंमारोहत् । स च मा भूद् गुरूणामप्रीतिरिति गिरिमूल एव तप्तशिलातले अनशनं कृत्वा स्वरगात् । देवैस्तु तन्महिमानं क्रियमाणं वीक्ष्य मुनयो दृढस्थिरीभूतास्तत्र च मोदकादिभिर्निमन्त्रयन्त्या मिथ्यादृग्देव्या अप्रीतिं ज्ञात्वा अन्याऽऽसन्नगिरौ गत्वा अनशनेन दिवं प्रापत् । ततः शक्रेण सरथेन गिरेः प्रदक्षिणीकरणात् रथावर्त्तेति नामाऽजनि वृक्षाणां नमनादद्यापि तत्र वृक्षा नम्रा एव जायन्ते । तत्र च दशमपूर्व तूर्यसंहननं च व्युच्छिन्नं, तदनु च वज्रसेनः सोपारके जिनदत्तश्राद्ध भार्येश्वरीगृहे गतः तथा च लक्ष मूल्यमन्नं पक्त्वा प्रक्षिप्यमाणं विषं गुरुवचः प्रोच्य न्यवारयत्, प्रातः पोतैः प्रचुरधान्याssगमने जाते सुभिक्षे जिनदत्तो भार्या नागेन्द्रचन्द्रादिसुतयुक्तः प्रावाजीत्, ततस्तेभ्यो शाखा चतस्रो जाता हात थेरेहिंतो णं अज्जसमिएहिंतो गोयमसगुत्तेहिंतो इत्थ णं बंभदीविया साहा निग्गया ।
स्थविरावली
व्याख्या -- बंभदीविया साहा निग्गय त्ति - आभीरदेशेऽचलपुरासन्ने कन्ना बेन्नानयोर्मध्ये ब्रह्मदीपे पञ्चशततापसास्तेष्वेको पादले पेन बेन्नामुत्तीर्य पारणार्थ याति, ततस्तवशक्तिं वीक्ष्य घनो जनस्तद्भक्तोऽभूत्, श्राद्धान् निन्दति च ' यद्भवद्गुरूणां न कोऽपि प्रभावः' ततस्तैः श्रीवज्रस्वामी मातुलार्यसमित सूरय आहूतास्तैरुक्तं स्तोकमिदं यतः पादलेपशक्तिरिति, श्राद्वैस्ते स्वगृहे पादपादुकाधावनपुरस्सरं भोजिताः ततस्तैः सहैव सर्वेऽपि श्राद्धाः नदीतटे प्राप्तास्ते च तत्र प्रविशन्त एव बुडितुम् लग्नास्ततस्तेषां सर्वत्राऽपभ्राजनाssसीत् । इतश्च तत्राऽर्यसमिताचार्या आजग्मुः तत्र ते लोकबोधार्थ चप्पडिकां दत्त्वोचुः 'बेन्ने परं
| ॥१४३॥