________________
र्याऽन्तिके दशपूर्वाणि अध्यष्टां । ततः प्राप्तसूरिपदः पाटलीपुरप्रवेशे मा भूत् दिव्यरूपाक्षेपात् पुरक्षोभेति शङ्कया संहृत्य क्षीराश्रवलब्ध्या राजादीनुपदिदेश । द्वितीयेऽह्नि न प्रभोर्गुणानुरूपं रूपमिति पौरालापं श्रुत्वा विकुर्वितसहस्राब्जस्थः स्वाभाविकरूपेण धर्म दिशन् सर्वान् व्यस्मापयत् । तत्र च धनश्रेष्ठिसुता रुक्मिण्याख्या साध्वीभ्यः प्राग ज्ञातगुणानुरागिणी सती कोटिधनोपेता पित्रा दीयमानाऽपि प्रयोध्य दीक्षिता । ततः स्वामिना पदानुसारिलब्ध्या श्रीआचाराङ्गमहापरिज्ञाऽध्ययनान्नभोगविद्या उद्दधे । अन्यदोत्तरस्यां दुर्भिक्षे श्रीसङ्घ पट्टे संस्थाप्य चारिग्रहणार्थ गतशय्यातरमपि लोचकरणेन साधर्मिकत्वं ख्यापयन्तं तत्रारोप्य स सुभिक्षां पुरिकापुरी प्राप। तत्र च बौद्धराज्ञा जिनचैत्येषु पुष्पप्रतिषेधे कृते पर्युषणापर्वणि सखेदं श्राद्ध| विज्ञप्तो व्योम्नोत्पत्य माहेश्वयां पुर्या हुताशनाख्यदेवस्य बने पितृमित्रमारामिकं पुष्पानयनार्थमादिश्य
हिमवद्रिं गतः।तत्र श्रीदेव्या नतः , तदनु प्राग् देवार्चार्थानीतं महापद्मं तदर्पितं, हुतशनवनाविंशतिलक्षNI पुष्पाणि चादाय विकुऱ्या विमानं प्रागमित्रजम्भिकामरक्तगीतवाद्याद्युत्सवरेत्याहन्मतं प्राभाव
नृपोऽपि श्राद्धोऽभूत्, अन्यदा दक्षिणापथे विहरन् श्लेष्मप्रकोपे भोजनादनुग्रहणाय कर्णे स्थापितशुष्ठयाः प्रतिक्रान्तिमुखपोतिकातिलेखनावसरे पतने स्वप्रमादं मत्वा अनशनार्थी सन् द्वादशाब्दं दुर्भिक्षं ज्ञात्वा
लक्षमूल्यौदनादिक्षां यत्राहि त्वमाप्नुयाः। सुभिक्षमवबुद्धयेथा-स्तदुत्तरदिनोषसि ॥१॥
इत्युक्त्वा वज्रसेनाख्यं स्वशिष्यं अन्यत्र व्यहारयत्, स्वान्तिकसाधूंश्च दुर्भिक्षे भिक्षामलभमानान् विद्यापिण्डेन कियदिनानि भोजयित्वा संविग्नान् पञ्चशतशिष्यान् सहाऽऽद्याऽनशनार्थ वार्यमाणमप्यति