________________
पोऽभूत्। सोऽन्येद्युः रथयात्राऽऽगतः श्रीसुहस्तिसूरीन् दृष्ट्वा जातजातिस्मृतिरव्यक्तचारित्रस्य किं फलमिति पृच्छन् गुरुभिस्तत्फलं राज्यादीत्युक्ते जातप्रत्ययो दत्तोपयोगैस्तैः प्रतिबोधितः सन् सपादकोटिबिम्ब- सपादलक्ष [सपाद कोटि ] नव्याऽऽर्हतप्रासाद - षत्रिंशत्सहस्रजीर्णप्रासादोद्धार -- पञ्चनवतिसहस्रपित्तलमयविम्बाऽनेकशतसहस्रसत्रशालादिमण्डितां त्रिखण्डामपि महीं चक्रे । अनार्यदेशानपि करं मुक्त्वा पूर्व साधुवेषभृत्स्ववण्ठप्रेषणादिना साधुविहारयोग्यान् स्वसेवकनृपान् जैनधर्मरतांश्चक्रे । तथा
वस्त्रपात्राऽन्नदध्यादि - मासु कद्रव्यविक्रयं । ये कुर्वन्त्यथ तानुर्वी - पतिः सम्प्रतिरूचिवान् ॥ १ ॥ साधुभ्यः सञ्चरद्भ्यो ढौकनीयं स्ववस्तु भोः । ते यदाददते पूज्या - स्तेभ्यो दातव्यमेव तत् ॥ २ ॥ अस्मत्कोशाऽधिकारी च, छन्नं दास्यति याचितम् । मूल्यमभ्युल्लसल्लाभं, समस्तं तस्य वस्तुनः ॥ ३ ॥ अथ ते पृथिवीभर्तु राज्ञया तद्व्यधुर्मुदा । अशुद्धमपि तच्छुद्ध - बुद्धया त्वादायि साधुभिः ॥ ४ ॥ थेरस्स णं अज्जसुहत्थिस्स वासिसगोत्तस्स अंतेवासी दुवे थेरा सुट्ठियसुप्पडिबुद्धा कोडियकाकंदा वावचसत्ता | राणं सुट्टियसुपडिबुद्धाणं कोडियकाकंद गाणं वग्घावञ्चसगोताणं अंतेवासी थेरे अज्जइंददिन्ने कोसियगुत्ते । थेरस्स णं अज्जइंददिन्नस्स कोसियगुत्तस्स अंतेवासी थेरे अज्जदिने गोअमसगुत्ते । थेरस्स णं अज्जदिण्णस्स गोयमसगुत्तस्स अंतेवासी