________________
बाहुत्ति "प्रतिष्ठानपुरे वराहमिहिरभद्रयाहुद्विजौ बान्धवौ प्रबजितौ, भद्रबाहोराचार्यपददाने रुष्टः सन् वराहो द्विजवेषभाग् वराहीसंहितां कृत्वा निमित्तैर्जीवति, वक्ति च लोके काऽप्यरण्ये शिलायामहं सिंहलग्नममण्डयं शयनाऽवसरे तभञ्जनस्मृत्या लग्नभक्त्या तत्र गमने सिंहं दृष्ट्वा तस्याऽधो हस्तक्षेपेण लग्नभङ्गे तुष्टः सूर्यः प्रत्यक्षीभूय स्वमण्डले नीत्वा सर्वग्रहचारं ममाऽदर्शयदिति। अन्यदाराज्ञोऽग्रे लिखितकुण्डालके वातप्रयोगात्पलार्द्धत्रुटिमज्ञात्वा द्विपञ्चाशत्पलमानमत्स्यपातकथने श्रीभद्रयाहुभिस्तदन्ते पातः साकपश्चाशत्पलमान चाऽवादि।तथाऽन्यदा स्वपुत्रस्य कचिन्नृपपुत्रस्य तेन शतवर्षायुर्वर्तते, “एते न व्यवहारज्ञा" इतिजैननिन्दायां च क्रियमाणायां गुरुभिः सप्तदिनैर्बिडालिकातो मृतिरुचे । तदनु तेन पुरात् सर्वबिडालिकाकर्षणे सप्तमे दिने स्तन्यं पिबतो बालस्योपरि बिडालिकाऽऽकारवक्त्रार्गलापातेन मृत्यौ गुरूणां स्तुतिः तस्य च निन्दा। ततो मृत्वा व्यन्तरीभूय अशिवोत्पादनादिना श्रीसङ्घमुपसर्गयन् श्रीगुरुभिरुपसर्गहरस्तोत्रं कृत्वा न्यवारि ॥ |
थेरस्स णं अजसंभूइविजयस्स माढरसगोत्तस्स अंतेवासी थेरे अजथूलभद्दे गोयमसगुत्ते ___ व्याख्या-अज्जथुलभद्दे त्ति-पाटलीपुरे शकडाललक्ष्मीवत्योः पुत्रः स्थूलभद्रो, द्वादशवर्षाणि कोशागृहे । स्थितो, वररुचिप्रयोगात्पितरि मृते नन्दराज्ञा मन्त्रिमुद्राऽऽदानायाऽभ्यर्थितः सन् पितृमृत्युं ध्यायन स्वयं प्राव्रजत् , पश्चाच्च सम्भूतिविजयान्तिके प्रव्रज्य तदाज्ञया कोशागृहे चतुर्मासकमस्थात् , ततो निर्लेपःसन् तां | प्रबोध्य गुरुन्नतवान् । तैः 'दुष्करकारकः'२इति सासमक्ष प्रोचे,तद्वाग्भिः पूर्वायातसिंहगुहाविलकूपकाष्ठस्थमु