________________
प्रदापिका
स्थविरा
केवलज्ञानं प्राप्य च षोडशवर्षाणि गृहे, विंशतिः छाद्मस्थ्ये, चतुश्चत्वारिंशत् केवलित्वे, सर्वायुरशीति- वर्षाणि परिपाल्य च श्रीप्रभवं स्वपदे न्यस्य सिद्धस्तत्रबारस वरिसेहिं गोयमु, सिद्धो वीराउ वीसहि मुहुम्मो । चउसठ्ठीए जम्बू, वुच्छिन्ना तत्थ दस टाणा ॥१॥ .
मण १ परमोहि २ पुलाए ३, आहारग ४ खवग ५ उवसमे ६ कप्पे ७।
संजमतिम ८ केवल ९ सिज्झणा १० य जंबूमि खुच्छिन्ना ॥२॥ जम्बूस्वरूपम् ॥ अथ प्रभवस्वामिना गणे सो च शिष्यार्थमुपयोगे दत्ते तत्र तादृशशिष्याऽदर्शने परतीर्थे तदुपयोगे 'राजगृहे यज्ञं यजन् शय्यंभवनामा भट्टो दृष्टः। ततस्तत्र गत्वा साधुभ्यां ' अहो कष्टमहो कष्टं तत्त्वं न ज्ञायते परं' इति वचः श्रावितः, प्रतिमया प्रबोध्य दीक्षितः । तदनु त्रिंशद्वर्षाणि गृहे, पञ्चपञ्चाशद् व्रते, पञ्चाशीतिवर्षाणि प्रपूर्य, श्रीशय्यंभवं स्वपदे न्यस्य स्वर्गमगात् । इति प्रभवस्वरूपं ।। __ शय्यंभवोऽपि साधानमुक्तस्वस्त्रीजातमनकाख्यपुत्रहिताय श्रीदशवैकालिकं कृतवान् । क्रमेण श्रीयशोभद्रं स्वपदे न्यस्य स्वर्जगाम ॥ ५ ॥ अथ मध्यमवाचनया स्थविरावलीमाह
अज्जजसभद्दाओ अग्गओएवं थेरावली भणिया, तंजहा-थेरेस्स णंअज्जजसभहस्स तुंगियायणसगुत्तस्स अंतेवासी दुवे थेरा, थेरे अज्जसंभूइविजए माढरसगुत्ते थेरे अज्जभद्दबाहु पाईणसगुत्ते। व्याख्या-अजजसभद्दाओ अग्गओइत्यादितो....अज्जतावसी साहा निग्गया इत्यन्तम् ।तत्र अज्जभद्द
N|१३५॥