________________
तत्र तावत् आयान्त्यजिनतीर्थयोः कल्पः साध्याचारः, स च दशधा तद्यथा
आचेलकु १ देसियर सिज्झायर३ रायपिंड४ किइकम्मे५
वय६ जिट्ठ७ पडिक्कमणेट मासं९ पज्जोसवण१० कप्पे ॥१॥ न विद्यते चेलं वस्त्रं यस सोऽचेलका, तद्भावः आघेलक्य, तच साधुमाश्रित्य आयान्त्यजिनतीर्थे जीर्णप्रायश्वेतमानाद्युपेतवस्त्रधारित्वेऽप्यचेला एव उच्यन्ते साधवः। यतः ताहग् विशिष्टवेषाऽभावेऽचेल| कत्वव्यवहारः सार्वजनीनो, “नम् कुत्सार्थवाची च' यथा-स्नानकरणनयागुत्तरणकृते पुमान् कुचेलकोप्यचेलक एव व्यवहियते।।
अजितादिवाविंशतितीर्थकृत्तीर्थे महामूल्यानियतवर्णाद्युपेतवस्त्रधारित्वात् सचेलाः साधवः, | केचिदचेला अपि,। यतः
आचेलुको धम्मो, पुरिमस्सय पच्छिमस्सय जिणस्स,
मज्झिमगाणं जिणाणं, होइ सचेलों अचेलो अ॥१॥ आचेलक्यकल्पः प्रथमः॥ 'उद्देसिय' साधून अङ्गीकृत्य कृतं तदौदेशिक-आधार्मिक, तबायान्त्यजिनतीर्थयोरेकं साधुमुद्दिश्य कृतं सर्वेषांसाधूनामकल्प्यम्, शेषजिनतीर्थे यं साधुमुद्दिश्य कृतं तत्तस्यैवाकल्प्यं शेषसाधूनांतुकल्प्य। यतः