________________
कल्प
दीपिका
___ एगं वाससहस्सं ति-दीक्षादिनादारभ्य वर्षसहस्रं यावच्छद्मस्थकालस्तत्र प्रमादकालः सर्वसङ्किलि- तोऽप्यहोरात्रमेव, एव एकवर्षसहस्रेऽतिक्रान्ते तत्राऽऽगतस्य प्रभोः केवलज्ञानं उत्पन्नं । तस्मनेव दिने भरतस्याऽऽयुधशालायां चक्रोत्पत्तिः युगपद द्वयोनिवेदने विषमविषयाकुलितो भरत इत्यचिन्तयत् 'प्रथमं कि तातं चक्र वार्चयामि इति ध्यायन् चक्रं तावदेहिकसुखदं तातस्तु परलोकानन्तानन्दहेतुरतस्तातं पूजयामीति ध्यात्वा भरतः प्रभु नन्तुम् प्रवृत्तः। मरुदेवी तावत्प्रभोः प्रवजिते भरतराज्यश्रियं वीक्ष्येति प्रत्यहं भरतं प्राह-'भो भरत ! त्वमीदृशी राज्यश्रियं धत्से मत्सुत्रस्त्वेकाकी वनवासादिकष्टं सहते' इत्याधुद्वेगं गताऽर्हद्विभूति वर्णयन्तमपि भरतं न प्रत्येति । ततः तस्याः पुत्रशोकेन तेजोहीने नेत्रे जातेऽतो भरतेन गच्छता पितामही विज्ञप्ताहे अम्ब ! एहि येन प्रभोर्विभूति दर्शयामि।
ततः भरतेन समं हस्त्याऽऽरुदा देवजयध्वनि, दुन्दुभिदेशनां श्रुत्वा हृष्टा मरुदेव्यभूत् ॥१॥ हर्षाऽश्रुभिः समं नील-पटलं क्षयतः क्षणात् । वपछत्रत्रयादिश्रीदर्शनादित्यचिन्तयत् ॥ २॥ धिग मोहविह्वलान् जीवान्, स्वार्थे स्निह्यन्ति जन्तवः । मोहो हि दुःखहेतुः स्यान्मोहः संसारवृद्धिकृत् ॥३॥
अहह शीनाऽऽतवर्षापीडासह अनोपानहं-पादत्राणरहितं निर्यानं निरशन वनवासिनं एकाकिन गिरिकन्दरादिष्वदन्तं मत्पुत्रं सन्नान्यानयेति प्रत्यहं भरतं भणामि । शोकेन मे दृशौ पटलावृत्ते, एष इदृशीमृद्धि प्राप्तो मे नामानिन पृच्छति, मे दुःखं च न वेत्ति । स्वास्थ्यहेतुसन्देशकमपि न प्रयच्छति । अहो वीतरागत्वनस्य, वोतरागे कः प्रतियन्धः, एवं सर्वत्र निर्मप्रत्वं गता शुभध्यानेन केवलज्ञान प्राप्य तत्क्ष