________________
पूजाभोजनदानशान्तिककला-पाणिग्रहस्थापना । चोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् । अथ वामो ब्रूते- | वामोऽहं रणसंमुखाङ्कगणनावामाङ्गशय्यादिकृत् द्यतादिव्यसनी त्वसौ स तु जगौ चोक्षोऽस्मि न त्वं शुचिः॥८॥ राज्यश्रीभवतार्जितार्थिनिवहस्त्यागः कृतार्थीकृतः, सन्तुष्टोऽस्मि गृहाण दानमधुना तन्वन् दयां दानिषु इत्यब्दं प्रतिबोध्य दक्षिणकरं श्रेयांसतः कारयन् । प्रत्यग्रेक्षुरसेन पूर्णऋषभः पायात्स वः श्रीजिनः ॥९॥
तेनेचरसेन प्रभुः वार्षेकतपः पारणं चक्रे । तत्र पञ्चदिव्यानि प्रादुरभूवन् । तानि दिव्यानि दृष्ट्वा तत्राऽऽयातैलीकैरिहर दानं कथं वेत्सीति पृष्टः श्रेयांसः स्वामिना सह स्वस्य अष्टभवसम्बन्धं प्राह
स्वामिनो ललिताङ्गदेवस्य भवेऽहं स्वयंप्रभा देवी ।शा वज्रजङ्घस्य भवेऽहं श्रीमती भार्या ॥२॥ युगलिकस्य भवेऽहं युगलिनी ॥३॥ सौधर्मदेवस्याऽहं मित्रं ॥४॥वैद्यपुत्रस्य भवे केशवाख्यो मित्रं ।। वज्रनाभचक्रिणो भवेऽहं सारथिः।। सर्वार्थसिद्धिदेवस्य मित्रं ।८। तेषां अष्टानां मध्ये सप्तमे भवे चक्रिणा सह प्रवजितोऽहं । तत्र वज्रसेनतीर्थपं प्रभुतुल्यवेषं दृष्टपूर्वी प्रभुं वीक्ष्य जातजातिस्मृतिरिद वेद्मि,
श्रेयांसेन स्वामिपारणस्थाने रत्नमयपीठं चक्रे, एवं रूषभेणाब्देनेचरसभिक्षा लब्धा । शे द्वितीयदिने एव पायसभिक्षा च, ततो लोकेनाऽपि यत्र यत्र स्वामी स्थितः, तत्र तत्र पीठं कृतं।
अन्यदा विहरन् स्वामी बहलीदेशे तक्षशिलांपाप्तः, सायं चोद्यानपालकेन बाहुबले निवेदने कृते प्रातः सर्वर्या तातं वन्दिष्ये इति रात्रि व्यतिक्रम्य प्रातस्तत्राऽऽगतः।प्रभुश्चान्यत्र विजहेऽदृष्ट्वा च तातं महतीमवृति कृत्वा यत्र प्रभुः प्रतिमयाऽस्थात्तत्राष्टयोजनपरिमण्डलपञ्चयोजनोच्छ्रयं रत्नमयं धर्मचक्रं चिन्हं चकार, निर्यामकानां च सहस्रं तत्र मुमोच । एवं क्रमेण विहरन विनीतां प्राप्तः कियता कालेनत्याह