________________
कल्प
१२९
यत्र प्रभुः पादौ धत्ते तत्र कण्टकाद्युदधरताम्, देशाद्यरक्षताम्, खङ्गधरौ त्रिकालं प्रभुं पद्मः पूजयित्वा राज्यप्रदो भवेत्युक्त्वा नमोऽकाम् । अन्यदा कम्पितासनः प्रभु नन्तुमागतो धरणेन्द्रस्तौ प्रत्यूचे, 'निर्ममो निःसङ्गः स्वामी युवयोर्न दास्यति' ततस्तै घरणेन्द्रं प्रत्युत्तरताम् निःसङ्गो स्वाम्येव दास्यति । ततस्तुष्टो धरणेन्द्रः स्वाभिरूपं कृत्वाऽष्टचत्वारिंशत्सहस्रविद्याः पठितसिद्धाः वैतादयराज्यं च यो ददौ यतः
नमिविनमीण जायण, नागिंदो विज्झदाणवेयङ्के, उत्तरदाहिणसेढी, सही पन्नासनयराई ॥ १॥
इतः प्रभुः अन्नपानदानाऽनिपुणैर्जनैः कनकमणिवनकन्या दिवस्तुभिनिमन्त्र्यमानोऽपि योग्यभिक्षामलभमानोऽदीनमनाः सन् भिक्षार्थ भ्रमन् कुरुदेशे गजपुरपुरे प्राविशत् ।
तस्मिन् गजपुरे बाहु-बलेः सोमयशा सुतः । श्रेयांस (स्तत्सुतः) स्वप्ने मेरुं सुधोज्वलं व्यधात् ॥ १ ॥ aise यांस साहाय्यात् शत्रुक्रान्तो महाभटः । जयी जात इति स्वप्ने, पश्यत्सोमयशा नृपः ॥ २ ॥ रवीमण्डलतः स्रस्तो करौघो घटितः पुनः । श्री श्रेयांसकुमारेण स्वप्नं श्रेष्ठीति लब्धवान् ॥ ३ ॥ प्रातरन्तः सर्भ भावी श्रेयांसस्योदयो महान् । कोऽपीति मन्त्रयित्वा ते, स्वस्ववेश्म त्रयोऽप्यगुः ॥ ४ ॥ लातः श्रीरूषभः किंञ्चिन्नेति कोलाहलं नृणां । श्रुत्वा गवाक्षतो धावद्युवराजः प्रभुं प्रति ॥ ५ ॥ प्रभोर्दशन तो जाति - स्मृतिं प्राप स भाग्यतः । तस्येक्षुरसकुम्भौघं, ढोकयामास कोऽप्यथ ॥ ६ ॥ स प्राह- 'भगवन् ! प्रसारय करौ, निस्तारय मां गृहाण योग्यमिक्षुरसममुं । अत्र कविघटनास्वाम्याह दक्षिण हस्तं कथं भिक्षां न लासि भोः । स प्राह दातृहस्तस्याऽधो भवामि कथं यतः ॥ ७ ॥
प्रदीपिका
१२९