________________
कल्प
१२६
पत्रपुष्पफल भोजिनोऽग्नेर भावाच्चाऽपक्वशाल्याद्यौषधिभोजिनश्चासन् । कालानुभावात्तदजीर्णे स्वपं स्वल्पतरं चखादुः, तस्याऽप्यजीर्णे तैर्विज्ञप्तः स्वाम्याह- 'हस्ताभ्यां दृष्ट्वा त्वचं चापनीयभुङ्क्ष्व मित्याकर्ण्य तथैव कृते कियत्कालेन ता अपि ते न जीर्णवन्तः । एवं पुनर्विज्ञप्तः स्वाम्युक्ततथाविधानेकोपायैस्ते ता कथञ्चिज्जीर्णवन्तः एवं च सत्येकदा वंशघर्षणादुत्थितज्वलन्तमग्निं दृष्ट्वा रत्नबुया ग्रहणाय प्रसारितकरा दह्यमाना भीताः सन्तो यथावद् व्यतिकरकथनेन विज्ञपयामासुः । स्वामिना चान्युत्पत्तिं ज्ञात्वा भो ! नरा ! उत्पन्नोऽग्निः अत्र च शाल्याद्योषधीर्निधाय भुङ्गध्वम्, यतः - ताः सुखेन जीर्यन्तीत्युक्तोपायेनाऽप्यनाभ्यासात्सम्यगुपायमजानान्तस्ता औषधीरग्नौ क्षित्वा कल्पद्रोरिव फललिप्सया पुरः स्थित्वा पश्यन्ति । अग्निना ताः सर्वादयमाना दृष्ट्वा अहो एष दुरात्मा वेताल इवाऽतृप्तः स्वयं सर्वम् चखाद,नोऽस्माकम् किमपि दत्ते, अतोऽस्यापराधं स्वामिने विज्ञप्य शिक्षां दापयिष्यामः इति धिया गच्छन्तः पथि प्रभुमपि गजारूढं संमुखमायान्तं वीक्ष्य तदुदन्तं स्वामिने व्यवेदयन्। स्वाम्याह— 'अत्र कुम्भादिव्यवधानेन शाल्यादि प्रक्षेपः कार्यः, इति तैरेव सार्द्धं मृत्पिण्डमानाय्य विधाय च हस्तिकुम्भे कुम्भं मिण्टेन कुम्भकारं न्यदर्शयत्, ऊचे चेदृशानि भाण्डानि कृत्वा तेषु पाकं कुरुध्वमिति स्वाम्युक्तमुपायं लब्धास्ते तथैव चकुः । अतः प्रथमं कुम्भकार शिल्पं प्रवर्तितं, ततो लोह -चित्र-तन्तुवायनापितरूपचतुः शिल्पैः सह मूलशिल्पानि पञ्चैव तान्यपि प्रत्येकं विंशत्या भेदैः शिल्पशतं तचाऽऽ चार्योपदेशजमिति ॥ २०९ ॥
प्रदीपिका
१२६